SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ वादोऽथ वैद्यकम् । पात्रं विना न देयानि पापव्यापृतिदर्शनात् ||२९|| तथापि भवता भद्र, मुनीनां विरतात्मनाम् । कल्प्याषधानि देयानि यथायोगं स्वभक्तितः ।। ३० ।। संप्राप्तिर्बोधिबीजस्य, येनागामिनि जन्मनि । भवतोऽपि भवेन्नूनं, मुक्तिशर्मनिबन्धनम् ॥ ३१ ॥ यतः - - गृहिणां गृहिधर्मस्य, सारमेतत्परं स्मृतम् । यथाशक्ति सुपात्रेषु, दानं यच्छुद्धवस्तुनः ॥ ३२ ॥ ततः प्रभृति साधूनां दयार्द्रहृदया मना । क्वचित्क्वचिददौ कल्प्यैौषधानि विविधान्यपि ॥ ३३ ॥ आर्त्तध्यानात्परं मृत्वा, स जज्ञे वानराग्रणीः । वानरीणां पतिः पञ्चशतीनां काननावनौ ।। ३४ ।। सोऽन्यदा जातिमस्मार्षीत्सशल्यमुनिदर्शनात् । यद् दृष्टा अपि जन्तूनां साधवः स्युः शिवावहाः || ३५ ।। प्राग्भवाभ्यासतः साधुमौषधीभ्यामसौ व्यधात् । गतशल्यं भवाम्भोधेः, पारमाप च तत्क्षणात् ॥ ३६ ॥ न्यवेदि साधुना तस्मै, धर्मो निश्छद्मचेतसा । पीयूषादपरं किञ्चित्किमिन्दुर्भुवि वर्षति १ ।। ३७ ।। वानरोऽपि ततः प्राप्य, बोधिलाभं मनोहरम् । त्रिदिनीं पालयामास, सम्यग् सामायिकं व्रतम् ।। ३८ ।। ततोऽनशनमाराध्य, मुनेर्वाचा प्रशान्तहृत् । त्रिपल्यासुरसौ स्वर्गे, सौधर्मे त्रिदशोऽजनि ।। ३९ ।। ज्ञानेनावधिना ज्ञात्वा तं मुनिं गुरुसन्निधौ । गत्वा स्वरूपमाख्याय, नत्वा देवो दिवं ययौ ।। ४० ।। ततश्च्युतोऽभवद्देवोऽरुणदेवाभिधो नृपः । संस्मृत्येति निजां जातिं, सोऽप्यनंसीन्मुनिं पुनः ।। ४१ ।। विमुच्य प्रतिमां तस्मै, धर्माशीर्वादपूर्वकम् । प्रददौ स मुनिर्धर्मदेशनाममृतस्रवाम् ॥ ४२ ॥ न्यग्रोधे दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म, दुर्लभं जिनशासनम् ॥ ४३ ॥ कल्पद्रुस्पर्शपाषाणदक्षिणावर्त्तशङ्खवत् । तत्रापि दुर्लभं राजन् ! तव श्रद्धानमन्तरम् ॥ ४४ ॥ जिनेन्द्रो देवता तत्र, सर्वज्ञः सर्वदोषहृत् । निश्छद्मत्रह्मपूतात्मा, सर्वसाद्यहृद् गुरुः ॥ ४५ ॥ क्षमादिर्दशधा धर्मः, शिवशर्मपदं पुनः । एतानि त्रीणि तत्वानि, प्रणीतानि जिनागमे ॥ ४६ ॥ रत्नत्रयमिदं Jain Education International For Private & Personal Use Only 119911 www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy