SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भाविव्यपदेशान्तरतया स्वल्पकालं, तच्च प्रथमचरमतीर्थकरतीर्थे भरतैरवतक्षेत्रेषु प्रथमशैक्षस्य यावन्महात्रतारोपो न विधीयते तावद् ज्ञेयं, पश्चाच्छेदोपस्थापनीयचारित्रं, आत्मनः कथां यावदारते यत्तद्यावत्कथिकं यावज्जीवमित्यर्थः तच्च भरतैरवतक्षेत्रेषु श्रीअजितादिद्वाविंशतितीर्थ करसाधूनां विदेहसाधूनां चावसेयं, तस्य लाभः श्रीजिनागमे एवं निवेदितो यथा —— सायायि कोपवातिज्ञानावरणीयदर्शनावरणीयमिथ्यात्वमोहनीय कर्मणां सर्ववातिषु स्पर्धकेषु उद्घातितेषु सत्सु देशवातिषु स्पर्धकेषु अनुद्घातितेषु अनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामवान् प्राणी भावतः सामायिकस्य पूर्वाक्षरं ककारं लभते, एवमनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धयमानः सन् रकारादिवर्णावलीमाप्नोति, एवं भावतः सामायिकस्य लाभो भव्यस्य भवति यतः - + कह सामाइयलंभो ?, तस्सद्यविवाइदेसवावाई । देसोवघाई फड्ग अणबुड्ढी विमुद्धस्स ॥ ५ ॥ एवं ककारलंभो, सेसाणवि एवमेव कमलंभो ॥ इत्यादि, तस्य चत्वारि एकार्थिकानि, सामं १ समं २ सम्यग् ३ इकं ४ चेति, इकशब्दो देशीयभाषया क्वापि प्रवेशार्थे गीयते, तत्र द्रव्यभावाभ्यामेतानि द्विविधानि द्रव्यसामं मधुरपरिणामं शर्करादिद्रव्यं, द्रव्यसमं तुलारूढं द्रव्यं, द्रव्यसम्यग् क्षीरखण्डादियुक्तिः, द्रव्यमिकं सूत्रे मुक्ताकलापस्य चयनं चितिः प्रोतनमित्यर्थः, यतः -- * महुरपरिणाम सामं १ समं तुला २ खीरखंडजुइ ३ समं । दोरे हारस्स चिई ४ इगमेयाई तुं दद्दमि ॥ ६ ॥ भावसामादिस्वरूपं त्वेवं यथा + कथं सामायिकलाभः ? तत्सर्वोवघातिनो देशोपघातिनः । देशोपघातिषु स्पर्धकेषु अनन्तवृद्ध्या विशुद्धस्य ॥ १ ॥ एवं ककारलाभः शेषाणामपि एवमेव तस्य लाभः । * मधुरपरिणामं सामं समं तुला क्षीरखण्डयुक्तिः सम्यक् । दवरके हारस्य चितिरिकमेतानि तु द्रये ॥ ६ ॥ Jain Education International For Private & Personal Use Only ॥४९॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy