________________
श्राद्धप्र.
॥४३॥
Jain Education
तत्र ' पच्छण्णकालेति' प्रच्छन्नता कालस्य मेघरजोगिर्यन्तरितत्वेन सूर्येऽदृश्यमाने अर्पूणायामपि पौरुष्यां पूर्णेतिबुद्ध्या भुआनस्य न भङ्गः, ज्ञाते तु यत् मुखे तद्भस्मनि करस्थं तु भाजने मुक्त्वा तथैव स्थातव्यम्, यावत्पौरुपी पूर्यते, ततः परं भोक्तव्यं, अन्यथा भुआनस्य तु भङ्ग एव । एवं दिग्मोहेऽपि यदा पूर्व्वामपि पश्चिमामिति जानाति तदा पौरुष्यामपूर्णायामपि भुआनस्य न भङ्गः, मोहविगमे तु पूर्वतन एव विधिः । साधुवचनमुद्घाटपौरुषीत्यादि विभ्रमकारणं, ततश्च श्रुत्वा भुञ्जनस्य न भङ्गः, ज्ञाते तु अन्येन वा कथिते प्राक् विधिः । कृतपौरुषी प्रत्याख्यानस्य तीत्रशूलादिना विह्वलस्य समाधिनिमित्तमौषधपथ्यादि प्रत्ययः कारणं स एवाकारः २ ॥ सार्धपौरुषी पौरुष्यन्तर्भूतैव ।
सूरे उग्गए पुरिम पञ्चक्खामि, चउव्विपि आहारं असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोगेणं सहस्सागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ॥ ३ ॥
पूर्वमर्द्ध पूर्वार्द्ध दिनस्याद्यं प्रहरद्वयं, 'महत्तरागारेणं' महत्तराकारः बृहत्तरनिर्जरा लाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं, तदेवाकारः । यच्चात्रैव महत्तराकारस्य पाठः न नमस्कारसहितादौ तत्र च कालमहत्त्वा ल्पत्वे हेतू ३ ॥
For Private & Personal Use Only
वृत्तिः
॥४३॥
Fainelibrary.org