________________
|११००) कृत इत्यर्थः, अकल्पो अकल्पनीयः। 'अकरणिजो' कर्तुमनुचितः, हेतुहेतुमद्भावश्चात्र, यत एव उत्सुत्रोहात एवोन्मार्ग इत्यादि। उक्तः कायिको वाचिकश्च,मानसिकमाह-दुर्ध्यात एकाग्रचित्ततया आर्तरौद्रलक्षणः,दुर्विचि|न्तितो ऽशुभ एव चलचित्ततया। 'जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं' इति वचनात् । यत एवेत्थम्भूतोऽत
एवानाचारः, यत एवानाचारोऽत एवानेष्टव्यः आस्तां तावत्कर्त्तव्यः। यत एवानेष्टव्योऽत एवाश्रावकप्रायोग्यः, क | विषये ? इत्याह-ज्ञाने, दर्शने, चारित्राचारित्रे देशविरतिरूपे। एतान्येव व्याचष्टे-श्रुते अकालखाध्यायादिकः, सा
मायिके सम्यक्त्वसामायिकरूपे शङ्कादिर्योऽतिचारः। चारित्राचारित्रातिचारं तु भेदेनाह-तिसृणां गुप्तीनां, चतुशों कषायाणां, पञ्चानामणुव्रतानां,त्रयाणां गुणव्रतानां, चतुणी शिक्षाव्रतानां, सर्वत्रतमीलनेन द्वादशविधस्य श्रावकधर्मस्य, यत् खण्डितं देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुष्कृतम् । पुनरपि विनेयोऽवनतकायः, प्रवर्द्धमानसंवेगो मायादिदोषमुक्तः आत्मनः सर्वशुद्ध्यर्थमिदं भणति-- | 'सव्वस्सवि देवसिअ दुचिंतिअ दुब्भासिअ दुञ्चिट्टिअ इच्छाकारेण संदिसह भगवन्'? गु० पडि|क्कमह। तस्स मिच्छामि दुक्कडं। | सुगमं। नवरं सर्वाण्यपि लुप्तषष्ठ्येकवचनान्तानि पदानि । ततोऽवग्रहानिःसृत्य [ गुरुवन्दनापेक्षया ] पुनर्वन्दनं दत्वाऽपराधक्षामणोद्यत एवमाह
Jain Educat
i
on
For Private & Personel Use Only
W
w.jainelibrary.org