SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ₹ त्वङ्कारश्च २३ गुरु णेदं कुर्वित्युक्तो यूयमेव किं न कुरुध्वमिति तज्जातवचनम् २४ गुरौ कथां कथ यति उपहतमनस्त्वम् २५ न स्मरसि त्वं, नायमर्थः सम्भवति २६ वयं कथनेन कथाछेदनम् २७ अधुना भिक्षावेला इत्यादिमिषैः पर्षद्भेदनम् २८ अनुत्थितायां पर्षदि सविशेषकथनम् २९ गुरुशय्यादेः | पादेन घट्टनम् ३० चिट्टत्ति गुरुशय्यादौ निषदनादि ३१ एवमुच्चासने ३२ एवं समासनेऽपीति ३३ ॥ साम्प्रतमेताखेव किञ्चिद्विशेषेणाह-जंकिंचि मिच्छाएत्ति' यत्किञ्चित्कदालम्बनमाश्रित्य मिथ्याभावोऽत्रास्तीत्यभ्रादित्वादकारे(मिथ्यया)मिथ्याभावयुक्तयेत्यर्थः । तथा मनोदुष्कृतया प्रद्वेषनिमित्तयेत्यर्थः । वाग्दुष्कृतया असत्यपरुषादिवचननिमित्तया। कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया। क्रोधभावोऽत्रास्तीति क्रोधया एवं मानया, मायया, लोभया, क्रोधादिभिर्जनितयेत्यर्थः । सार्वकालिक्यातीतानागतवर्तमानकालकृतया, एष्यत्काले कथमाशातना ! उच्यते-श्वोऽस्य गुरोरिदमिदं वानिष्टं कर्त्तास्मीति चिन्तया, सर्व एव मिथ्योपचारा मातृस्थानगर्भा भक्तिविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्मा अष्टौ प्रवचनमातरः करणीयव्यापारा वा तेषामतिक्रमण लिङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया। एवंभूतया आशातनया यो मया अतिचारोऽपराधः कृतो. विहितः, तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिक प्रतिक्रमामि, अपुनःकरणेन निवः । तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन चेतसा, तथा गहें युष्मत्साक्षिकं, तथा व्युत्सृजाम्यात्मानमाशातनाकरणकालवात्मानु Jain Education llona For Private & Personel Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy