________________
श्राद्धप्र.
॥३१॥
Jain Education I
'वेयावच्चगराणं, संतिगराणं, सम्मद्दिहिसमाहिगराणं क० अ० । '
"वैयावृत्त्यकराणां प्रवचनार्थ व्यापृतभावानां गोमुखयक्षादीनां शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणां, एषां सम्बन्धिनां षष्ठ्याः सप्तम्यर्थत्वादेतद्विषयं वा आश्रित्य करोमि कायोत्सर्गम्, अत्र वन्दणवत्तियाए इत्यादि न पठ्यते, तेषामविरतत्वात् । अन्यत्रोच्छु सितेनेत्यादि पूर्ववत्, तत एतेषां स्तुतिं भणित्वा प्राग्वच्छक्रस्तवं च ततः सर्वचैत्यसाधुवन्दनं कृत्वा स्तोत्रं च यथोचितमुद्दामगम्भीरखरेण पठित्वा "मुत्तासुत्तीमुद्दा, सेमा जहिं दोवि गब्भिया हत्था । ते पुण णिलाडदेसे, लग्गा अन्ने अलग्गति ॥ १॥" एवंलक्षणया मुक्ताशुक्तिमुद्रया प्रणिधानं करोति, तच्चेदम्जय वीयराय जगगुरु होउ मम तुह प्पभावओ भयवं । भवनिव्वेओ मग्गाणु - सारिआ इहफलसिद्धी | ॥१॥ लोगविरुद्धच्चाओ, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ॥२॥ | वारिज्जइ जइवि निआणबंधणं वीअराअ तुह समए । तहवि मम हुज्ज सेवा, भवे भवे तुम्ह चलणाणं ॥३॥ दुक्खक्खउ कम्मक्खउ, समाहिमरणं च वोहिलाभो अ । संपजउ मह एअं, तुह नाह पणामकरणेणं ॥ ४ ॥ | सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ५ ॥
१ औचित्यप्रवृत्तिरिति ज्ञापनार्थमिदमाहेति द्वितीयपुस्तके प्रागतः पाठः । २ जत्थ समा दोवि गब्भिया इत्यादिद्वि०पु० पाठः ।
For Private & Personal Use Only
वृत्तिः
॥३१॥
inelibrary.org