________________
श्राद्धप्र.
तां ततः शालादीनां प्रभुपदान्तिके । केवलज्ञानमुत्पेदे पञ्चानामपि वर्त्मनि ॥३॥ गौतमस्तु जिनोपान्ते, ययौ
यावद्विवन्दिपुः । प्रचेलुस्तेऽथ शालाद्यास्तावत्केवलिपपदि ॥ ४ ॥ ततस्तान् गौतमोऽवादीद्वन्दध्वं किं न भो विभु-है। ॥३०॥
म् । खाम्यूचे केवलज्ञानभाजो माशातयतकान् ॥ ५ ॥ श्रुत्वेति गौतमेनते क्षमयांचक्रिरे ततः । शुश्रुवे प्रागजिनाख्यांतमर्थमेवं जनो ब्रुवन् ॥ ६॥ यो भूमिगोचरो देवान् , वन्दतेऽष्टापदे गिरौ । केवलज्ञानमासाद्य
स सिध्यत्यत्र जन्मनि ॥७॥ चक्रे मनोरथं यावद्गौतमस्तावदहता। आदिष्टोऽष्टापदे देवान् नन्तुं लब्धिनिधे ब्रज MIn८॥ सोऽचालीदथ तत्रान्ये श्रुत्वेति जनवार्तया। मुक्तीच्छवोऽचलँस्तत्र, कौण्डिन्याद्यास्तपखिनः ॥९॥ तत्र
पञ्चशतीयुक्तः, कौण्डिन्याख्यश्चतुर्थकृत् । आर्द्रमूलफलाहारी प्रथमां मेखलां ययौ ॥ १०॥ दिन्नः कुलपतिः पष्ठभोजी पञ्चशतीयुतः । शुष्कमूलफलाहारी, द्वितीयामारुरोह सः ॥ ११॥ सेवाली त्वष्टमासेवी, शुष्कसेवालभोजकः। सोऽपि तावत्परीवारोऽध्यारुरोह तृतीयकाम् ॥१२॥ तदुमक्षमा गन्तुं, ते निरीक्ष्याथ गौतमम् । दध्युः स्थूलधियः ।
स्थूलः कथमेपोऽधिरोक्ष्यति ॥ १३॥ सूर्यस्यांशून् समाश्रित्य, तेषामुत्पश्यतामपि । स गरुत्मानिवोडीय, ययौ मंच हगिरेः शिरः ॥ १४ ॥ गौतमस्येति शक्त्या ते, विस्मिता इत्यचिन्तयन् । अस्य शिष्या भविष्यामः, प्रत्यायातो महा
१ तदेवाह-गौतमेन जनः शुश्रुवे जनात् श्रुतमित्यर्थः, जनः किं कुर्वन् ? प्राक् पूर्व जिनाख्यातमर्थमेवं ब्रुवन्, विहारकाले गौतमस्य | व्याख्यानावसरे वीरेणोक्तेऽर्थे आलापः कृतो लोकैः । २ चतुर्थ करोतीति चतुर्थकृत्, एकं उपवासं पारणे उत्तरपारणे एकाशनं करोतीत्यर्थः |
%3D
Jain Education
Artional
For Private & Personal Use Only
P
w.jainelibrary.org