________________
Jain Education
गतावपि तद्वैषम्यम्, तथाच सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येपि निर्वाणं समानमिति एप नवमोधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, सम्प्रदायाच अन्ये अपि । यदाहावश्यकचूर्णिकृत् सेसा जहिच्छाएत्ति । 'उज्जित सेलसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवहिं, अरिट्टनेमिं नम॑सामि ||४||' कण्ठ्या | 'नवरं निसीहियत्ति' सर्वव्यापार निषेधात् नैषेधिकी मुक्तिः । एष दशमोऽधिकारः ।
अत्र च किञ्चित्सम्प्रदायागतमुच्यते - पुरा यदेदं श्रीमदुज्जयन्तमहातीर्थमाशाम्बरैः श्री श्रमणसङ्घपार्थाद्वलादुद्दालयितुं प्रारब्धम्, तदा सङ्घस्य कायोत्सर्गानुभावेन कम्पिता शासनदेवता नृपपर्षदि दूरादानीतकन्यामुखेन उज्जि - न्त सेलसिहरेत्यादि' गाथां चैत्यवन्दनान्तर्गतां कृत्वा समार्पयत्, तत्प्रभृत्येव सकलसङ्गेन पठ्यमानेयमाजगामेति । तथा - ' चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउवीसं । परमट्टनट्टियट्टा, सिद्धा सिद्धिं | मम दिसन्तु ॥ ५ ॥ '
परमट्टनट्ठियत्ति परमार्थेन (न) कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तम् । एप एकादशोऽधिकारः ॥ अत्रापि सम्प्रदायः – चम्पायां प्रस्थितं वीरं, नत्वाऽऽपृच्छय सगौतमौ । साधू शालमहाशाली, पृष्ठचम्पामुपेयतुः * । ॥ १ ॥ स्वस्त्रीयो राट्र तयोस्तत्र पितृभ्यां सह गागिलिः । यशोमतीपिठरकाभिधाभ्यां व्रतमाददे ॥ २ ॥ आगच्छ१ भागिनेयः । २ शालमहाशालयोः । पृष्ठचम्पेयं हिमवदुत्तरतस्तिव्यकाव्य ( टिबेट) नगरे प्रसिद्धेति - प्रसिद्ध कर्ता.
For Private & Personal Use Only
w.jainelibrary.org