________________
श्राद्धप्र.
॥२९॥
Jain Education
यो देवानामपि भवनपत्यादीनां पूज्यत्वाद् देवः, यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटा नमस्यन्ति तं भगवन्तं देवदेवेः शक्रादिभिर्महितं पूजितम्, शिरसा वन्दे महावीरम् । अथ नमस्कारफलप्रदर्शनायाह-'इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥
एकोपि नमस्कार आस्ताम् बहवो, जिनवरवृषभाय जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभः | तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै वर्द्धमानाय किम् ? इत्याह- संसारसागरात् तत्र तिर्यग्नरनारका| मरभवानुभवलक्षणः संसारः, स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति पारं नयति, | कम् ? इत्याह- नरं वा नारीं वा, नरग्रहणं ( ग्रन्थाग्रम् ८००) पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणंतासामपि तद्भव | एव मुक्तिगमनज्ञापनार्थम्, नहि क्वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात्, तत्पालनस्य च उभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् । | अथैतासां सप्तमनरकगमनाभावेनो वधोगतिवैषम्य दर्शनात्कश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तम्, नहि यस्याधः स्तोकगतिस्तस्योर्द्धमपि स्तोकैव तथाहि - अधोगतौ भुजपरिसर्पा द्वितीयां नरकपृथिवीम् पक्षिणस्तृतीयाम्, सिंहास्तुर्याम्, उरगाः पञ्चमीमेव यावद्यंति न परतः परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् । अथ च सर्वेऽप्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादू
For Private & Personal Use Only
कर
वृत्तिः
॥२९॥
jainelibrary.org