SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सावधानान्तःकरणचक्षुष्कानां प्रतिभास्यति । प्रदश्येति सामान्येन निदर्श्यते तत्त्वनिदर्शननदीष्णानामभिधेयादिप्रतिपादकं किञ्चित्सुगमता-1 | धाय्येतस्य । प्रणेतारश्चास्य तावद् विधेः श्रावकानुष्ठानस्य सुगृहीतनामधेया भगवन्तो देवेन्द्रसूरयः श्रीमत्तपोगच्छभागीरथीप्रवाहहिमगिरयः || श्रीमज्जगच्चन्द्रसूरीणामाचामाम्लविधानकार्मणवशीकृततपःश्रीलक्षणलक्षणमात्रचमत्कृतयथार्थायर्यांचाररक्षणप्रवणश्रीमेदपाटाधीशवितीर्णतपोबिरुदानां वचनातिगभागधेयानां चित्रवालगच्छीयोपसंपदहावसरे सहचारिणः दुर्वासनावष्टब्धहृदयकौशिकसहस्रकिरणतपोविधानरूपासाधारणहेतुलब्धजन्मतपःपदोपदीभाववेलायां पारावारस्य वेला इवाभिन्नसत्ताकाः, प्रभावकपुण्डरीकाणां तेषामेव पट्टपूर्वाचलार्यमप्रभा अद्वितीयाः, जन्मादिसमयश्चैषाम् “ तदादिवाणद्विपभानुवर्षे, १२८५ श्रीविक्रमात्प्राप तदीयगच्छः। बृहद्गणाहोऽपि तपेतिनाम, श्रीवस्तुपालादिभिरय॑मानः । |९६ ॥ गते स्वः, शैलद्विविश्वशरदि १३२७ खगुरुद्वयेऽपि" इति युगप्रवरश्रीमन्मुनिसुन्दरप्रणीतगुर्वावलीतो निर्णीयते, तथा च त्रयोदशशतकमाधारभूतोऽनेहाः पूज्यानां, ग्रन्था अपि पूज्यपादौर्वितताः5 " सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोऽपहाः॥ पञ्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्यसूत्रवृत्ती च टीकाऽपि च धर्मरत्ने " इतिपर्यालोचनेनैदयुगीनजनताहितकरणलब्धप्रभवैरसपत्रज्ञानविभवैरिति स्पष्टतरं, स्पष्टीभवति चात एतत् यदुत | * सवृत्तिकं कर्मग्रन्थपञ्चकं, श्राद्धदिनकृत्यप्रकरणं, सिद्धपाभृतवृत्तिधर्मरत्नवृत्तिवृहतीत्यादिकाः प्रभूताः प्रभुभिः प्रादुर्भाविता ग्रन्थाः ॥ ४. शैली चेषां भगवतामेषा यदुतोपयुक्ततमानां ग्रन्थानामेव कृतिः, कर्मग्रन्थादिविलोककानां विलोककानां सुस्पष्टमेतद्भदयगुहायां, दरीदर्यदमानः श्रावकानुष्ठानविधिरप्येतादृश एव, यतो न श्रीमतो विरहय्य कैरपि पूज्यैः श्रावकाणां बोधनार्थमावश्यकार्थस्य विहितोऽनून एतादृशः | Jan Educat For Private Personal use only Kaw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy