________________
उपोद्धातः
वंदारुवृ० पृथक् प्रयासः । किञ्च-नैव भवत्यज्ञानां दृष्टान्तमन्तरेण कान्तातुल्यसरसास्वाददत्ता मितहर्षप्रकरकाव्यनिचयहेयोपादेयज्ञानोपादानफलप्राप्तिवर्णना॥२॥
सूत्मकं हेयस्य हानौ ग्रहणे च ग्राह्यस्य तथाविधा प्रवृत्तिः, बालानां तु मुख्यतया मित्रसंमितपञ्चाशकप्रभुसंमितावश्यकादिशास्त्रेभ्योऽपि विशेषेण
दृष्टान्तरूपमेवोपयुक्ततममिति नात्र विवादलेशः, अत एवच धर्मकथानुयोगोपयोग एवादिष्ट आदेशप्रधानैरभियुक्तैः बालानामुपदेश्यतया, सत्खपि
च केवलदृष्टान्तादिमयेप्वनेकेषु चरित्रेषु साधारणेषु अत्र ससूत्रवृत्तिदृष्टान्तान्वितत्वेन रचनायाः सुष्टुतरं सौष्टवापादनमापादितमाप्तवचनप्रवचना8| विर्भूतासीमसमतारसास्वादोद्भूतकृपापीयूषवारिपूरैर्यथार्थप्राप्तज्ञानपूरैः सूरिपुङ्गवैः, विवेचितमपि आवश्यकसूत्रवृन्दं चैत्यवन्दनगुरुवन्दनाद्यनु
क्रमेणातीवोपयुक्तेन विवृतमिति न कोऽपि शकावकाशः प्रत्याख्यानसूत्राणामर्वाक् प्रतिक्रमणसूत्रात् व्याख्याने, ज्ञापितं चानेन भगवद्भिर्विधानदर्शनेन प्रवर्त्तमानगुरुवन्दनस्य चिरतररूढिमागतत्वमिति, अवशिष्टं चावसितं प्रतिक्रमणसूत्रस्य सदृष्टान्तव्याख्यानकरणेनेति नमस्काराख्यात् शासनधुराधरणधौरेयपरमेष्ठिपदभूषितमोक्षसार्थवाहपुरुषपञ्चकद्रव्यभावस्तुतिरूपात्सूत्रादारभ्य यावत्सर्वातिचारप्रतिक्रमणकारणतया प्रतिक्रमणसंज्ञितसूत्रपर्यवसानं अत्र सूत्रवृन्दम्, विशेषश्चात्रायं यदुत-चैत्यवन्दनगुरुवन्दनप्रत्याख्यानसूत्राणां व्याख्याने संपत्पदाधिकारवर्णप्रमाणगुरुस्वरूपवन्दनैकार्थवन्द्यावन्द्यावश्यकप्रत्याख्यानखरूपतद्भङ्गाकारशुद्धिफलप्रमुखा विवेचिता अधिकारा अधिकारितमैकवेद्या ग्रन्थान्तरेभ्योऽपि च
दुरवसेयाः,तदसमानोपकारकरणपटिष्ठस्यास्य मुद्रणमतीवावश्यकमिति न कस्य चतुरस्य चेतसि प्रपोस्फुर्यात् । F मुद्रणं चास्य श्रेष्ठि देवचन्द्र लालभाईत्येतन्नामयुगज्ञानोद्धाराधारभूतद्रव्यनिचयाद्,अस्योद्भवादि तु निवेदितपूर्वमेव मुद्रितचरे श्रीमद्वीतरागस्त
वोपक्रमे सविस्तरमिति न तद्वृत्तान्तनिवेदनेनार्थः । मुद्रणाधारभूता प्रतिरस्य श्रेष्ठि–श्रीमनःसुखभाईविहितज्ञानोद्धारपुस्तकप्रबन्धादायाता ।
RAKAALAS
॥२॥
in Eduetan n
a
For Private & Personal Use Only
inelibrary.org