SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 4 वंदारुवृ. उपोद्धातः PRESSRESOS ॥१॥ वन्दारुवृत्त्यपराभिधानश्रावकानुष्ठानविधिप्रकरणोपोद्धातः श्रीगणधरेन्द्राय नमः HISTORIANSKOG ननु भो विपश्चिद्वन्दविततकीर्तिपटहा विद्वद्राता निर्णीतचरमेतत् समेषां समस्तसमस्ताज्ञानान्धतमसानां मोक्षप्रोक्षणपर्यवसानानां सकलैहिकामुष्मिकाकल्प्यार्थकल्पनाकल्पनकल्पतरुकल्पे श्रीमदपश्चिमतीर्थपतिप्रणीत आशतक्रतुकीटकरक्षणचणे शासनेऽनुष्ठानानां रसायनो|पयोगारम्भे विरेचनमिवानुदिनमुभयसन्ध्यमनुष्ठेयं आवश्यकानुष्ठानमाम्नातमादेयतयादौ, आदिश्यते चात एवेदमैदंयुगीनशासनं तत्र तत्र तत्रभवद्भिर्भगवद्भिः सप्रतिक्रमणाभिधानेन, न चैवमाद्यन्तान्यक्षीणाष्टकर्मणामरुहताम्, एतदेव च सह पञ्चमहाव्रतोच्चारणेन तीर्थान्तरसङ्क्रमणकारणं भेदोपनिबन्धनतया निबध्यते गणधारिभिरप्रतिहताप्रमेयाप्रतिमगुणगणधारिभिः, एवमेव च परमार्षमपि 'अवस्स कायव्वयं हवइ जम्हा' इत्यनेन प्रभुसंमितेनामरगणानुल्लङ्घनीयेनोदाजहारानवद्येन वचनेन, आवश्यकं चाध्ययनषट्रात्मकावश्यकक्रियादरणमवश्यकर्त्तव्यता च चैत्यवन्दनागुरुवन्दनादीनामपि अदीनानां अविचलपदावाप्स्यविकल निदानत्वे सम्यक्त्वशुद्ध्यादिना स्वात्मविशोधिकारकाणां यथैवानगाराणां तथैव देशसंयमपवित्रितान्तःकरणानामगारिणामपि तदनुसरतामावश्यकीयं पूर्वोक्तमितिहेतोर्वाच्यैव तेषामपि तन्मर्यादेति श्रीमत्पूज्यपादैर्देवेन्द्रसूरिभिराख्याता श्रावकानुष्ठानविधिसज्ञितैतत्प्रकरणविधानद्वारेण सा तेषां, तथा च व्यक्ततमास्याः प्रतिदिनमावश्यकतावश्यककार्यविधान ॥१॥ in Educh an intemeia For Private & Personal Use Only m.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy