SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ACCORRECORPHANSROSROSAR वृन्दं तद्विध्वंसयति विनाशयतीति तमस्तिमिरपटलविध्वंसनः । सुरगणनरेन्द्रमहितस्येति व्यक्तम् । सीमायां मर्यादायां - |धारयतीति सीमाधरः प्रक्रमात् श्रुतधर्मस्तस्य । प्राकृतत्वात्कर्मणि षष्ठी । अतस्तं वन्दे । तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी । प्रकर्षण स्फोटितं विवेकिनां मोहजालं मिथ्यात्वादिरूपं येन तस्य । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनपूर्वकमप्रमादविषयतां दर्शयति- जाईत्यादि' जातिजरामरणशोकप्रणाशनस्य जातिर्जन्म शेषं व्यक्तम् । कल्यमारोग्यं अणति शब्दयतीति कल्याणम् । पुष्कलं सम्पूर्ण च, नच तदल्पं किन्तु विशालं विस्तीर्ण, सुखं आवहयति प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्येति तु सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनम्, व्यक्तञ्चैतत्, धर्मस्य श्रुतधर्मस्य सारं सामर्थ्यमुपलभ्य कः प्रमादं कुर्यान्न कश्चिदित्यर्थः । अत्रार्थे सम्प्रदायःप्रमादात्सूरिरकोऽत्र, प्रेत्याभूद्विगतश्रुतः। तत्रोद्यच्छत्स एवाभूत्पारदृश्वा श्रुताम्बुधेः॥ १ ॥ तथा हि-एकस्मिन् | भ्रातरौ गच्छे, गङ्गाकूलनिवासिनी । व्रतं जगृहतुः शान्तौ, तत्रैकोऽभूद्वहुश्रुतः ॥२॥ सूरिजज्ञे क्रमेणासौ, शिष्यैः सूत्रार्थमिच्छुभिः । सेव्यमानो दिनं सर्व, विश्रामं नाश्नते क्वचित् ॥३॥ निशायामपि सूत्रार्थचिन्तनप्रच्छनादिभिः। नाससाद सुखं निद्रामन्वहं व्यग्रमानसः ॥ ४ ॥ भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ 5 सूरिर्दध्यौ दुर्बुद्धिबाधितः ॥५॥ अहो मे बान्धवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात्केनाप्यायास्यते न हि ॥६॥ अजाकृपाणकल्पेन, ज्ञानेनाहं त्ववानुयाम् । दुःखं ततोऽत्र केनापि, विदुषा सूचितं य(त) था in Education For Private Personal Use Only Khainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy