SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥२५॥ Jain Education वृत्तिः पास्तिं चिरागृहम् । आगादहिण्डनेनास्य, तर्कयन्नुपवासिताम् ॥ ३ ॥ एवं प्रतिदिनं कुर्वन् वर्षारात्रमतीत्य सः । दध्यौ खाम्यद्य महे यद्यागच्छेत्परेण किम् ॥ ४ ॥ ध्यायन्निति गृहस्यान्तस्तस्थौ स्वस्थमनाश्चिरम् । मध्याहे तु गृहद्वारे, सोऽथ स्थित्वेत्यचिन्तयत् ॥ ५ ॥ यद्यत्रैष्यति वीरोऽद्य, कल्पद्रुरिव जङ्गमः । संमुखस्तस्य यास्यामि, मूर्द्ध| बद्धाञ्जलिस्तदा ॥ ६ ॥ तं त्रिः प्रदक्षिणीकृत्य, वन्दिष्ये सपरिच्छदः । ततो नेष्ये गृहस्यान्तर्निधानमिव जङ्गमम् ॥ ७ ॥ प्रधानैस्तत्र पानान्नैः, प्रासुकैरेपणीयकैः । भक्त्या तं पारयिष्यामि, संसाराम्भोधितारकम् ॥ ८ ॥ पुनर्नत्वा | तु यास्यामि, पदानि कतिचित्ततः । धन्यंमन्यः स्वयं भोक्ष्ये, शेषमुद्धरितं मुदा ॥ ९ ॥ एवं मनोरथश्रेणीं, जिनद| त्तस्य कुर्वतः । श्रीवीरोऽभिनवश्रेष्ठिगृहं भिक्षार्थमागमत् ॥ १० ॥ कुल्माषा दापितास्तेन, चेट्या चटुकहस्तया । सुपात्र| दानतस्तत्र (ग्रं ७०० ) पञ्च दिव्यानि जज्ञिरे ॥ ११ ॥ नृपाद्या मिलितास्तत्र, श्रेष्ठवसौ तैः प्रशंसितः । पारयित्वा ततोऽन्यत्र, विहर्तुं प्रभुरभ्यगात् ॥ १२ ॥ जिनदत्तो निशम्याथ, ध्वनन्तं देवदुन्दुभिम् । दध्यौ धिग्मामधन्योऽहं यन्ना| यान्गृहं प्रभुः ॥ १३ ॥ तत्पुर्यामथ तत्राहि केवली समवासरत् । नृपाद्या एय तं नत्वाऽपृच्छन् कः पुण्यवानिह ॥ १४ ॥ सोऽथाख्यजिनदत्तं तं राज्ञोचेऽनेन नो जिनः । पारितः पारितः किन्तु, श्रेष्ठिनाऽभिनवेन सः ॥ १५ ॥ | केवली कथयित्वाऽस्य, भावनां मूलतोऽपि हि । बभाषे भावतोऽनेन, पारितः परमेश्वरः ॥ १६ ॥ दधानेन समाधिं तं प्रधानं धीमता तदा । द्वादशस्वर्गसंसर्गयोग्यं कर्म समर्जितम् ॥ १७ ॥ किञ्चान्यद्यदि नाश्रोष्यत्, तदा For Private & Personal Use Only ॥२५॥ Jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy