________________
RRORESOL
सर्पमपश्यदिति पार्थः २३ ॥ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः । गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्या/ दिभिवृद्धिङ्गतमिति वर्द्धमानः २४ ॥ एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-एवमित्यादि, एवं पूर्वोक्तप्रका-5 रेण मयाभिष्टुता नामादिभिः कीर्त्तिता, किंविशिष्टाः! विधूतरजोमलाः, वध्यमानं वद्धं ऐयापथं वा कर्म रजः, पूर्वबद्धं | |निकाचितं साम्परायिकं वा मलं, ते विधूते अपनीते यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत् , जिनवराःश्रुतादिजिनेभ्यः प्रकृष्टास्तीर्थकराः, मे मम, प्रसीदन्तु प्रसादपराभवन्तु । यद्यप्येते वीतरागत्वान्न प्रसीदन्ति तथापि तानचिन्त्यमाहात्म्योपेतान् चिन्तामण्यादीनिव मनःशुयाराधयन्नभीष्टफलमवाप्नोतीति । तथा 'कित्तियेत्यादि' कीर्तिताः खनामभिः प्रोक्ताः, वन्दिताः कायवाड्मनोभिः स्तुताः, महिताः पुष्पादिभिः पूजिताः, य एते ऋषभाद्याः, लोकस्य प्राणिवर्गस्य कर्ममलाभावेनोत्तमाः, सिद्धा निष्ठितार्थाः, अरोगस्य
भाव आरोग्यं सिद्धत्वं तस्मै बोधिलाभोऽर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं, स चानिदान एव मोक्षाय अतस्तदर्थGमाह-समाधिवरं वरसमाधि परमखास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनातः उत्तमं सर्वोत्कृष्टं ददतु । भावसमाधिगुणाविर्भावकं जिनदत्ताख्यानकं तथाहि
छद्मस्थ एकदा वीरो, वैशाल्यामाययौ बहिः । तस्थौ प्रतिमया देवकुले काले घनागमे ॥१॥ तत्रासीत्परमः श्राद्धो जिनदत्ताभिधः सुधीः। च्युतः श्रेष्ठिपदाजीर्णश्रेष्ठित्वेन स विश्रुतः॥२॥ वीरं संवीक्ष्य बन्दित्वा, कृत्वो
SOCIOSASTOSO ESTOS AS98
ARS
For Private 8 Personal Use Only
jainelibrary.org
nin Education