________________
पभलाग्छनत्वात् , मातुश्चतुर्दशखप्नेषु पूर्व वृषभदर्शनाचेति ऋषभः १॥ एवं सामान्यनामान्वर्थः सर्वेष्वपि भावनीयः ।। तत्र परीषहादिभिर्न जित इत्यजितः। गर्भस्थेऽस्मिन् जननी द्यूते राज्ञा न जितेति अजितः २ ॥ सम्भवन्ति |चतस्त्रिंशदतिशयाः अस्मिन् , शं सुखं भवत्यस्मिन्ननुते चेति सम्भवः, गर्भस्थेऽस्मिन् पृथ्व्यामधिका सस्यसम्भूति
तेति सम्भवः ३॥ अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः । गर्भात्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दित इत्यभिनन्दनः ४॥ शोभना मतिरस्येति सुमतिः, गर्भस्थे अस्मिन् द्वयोः सपत्योर्व्यवहारच्छेदने मातुः सुनिश्चिता मतिरभूदिति सुमतिः ५॥ निष्पङ्कतामाश्रित्य पद्मस्येव प्रभाऽस्येति पद्मप्रभः, गर्भस्थे प्रभौ मातुः पद्मशयनदोहदो देवतया परितः पद्मवर्णश्चेति पद्मप्रभः ६ ॥ शोभनानि पार्थान्यस्येति सुपार्थः । गर्भस्थेऽस्मिन् माता सुपार्था जातेति सुपार्श्वः ७॥ चन्द्रवत्सौम्या प्रभास्येति चन्द्रप्रभः। गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः ८॥ शोभनो विधिराचारोऽस्येति सुविधिः। गर्भस्थेऽस्मिन् मातापि सर्वविधिषु कुशला जातेति सुविधिः ९॥ समस्तसत्त्वसन्तापोपशमकत्वात् शीतलः । गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो राज्ञीकरस्पर्शादेवोपशान्त इति शीतलः १०॥ विश्वस्यापि श्रेयान् हितकर इति श्रेयांसः।गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या जनन्या आक्रान्ता श्रेयश्च जातमिति श्रेयांसः ११॥ वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यः । गर्भस्थेऽस्मिन् वसूनि रत्नानि तैरभीक्ष्णं राजकुलं पूजितवान्, वसुपूज्यस्य राज्ञोऽपत्यमिति वा वासुपूज्यः
Jain Educa
t
ional
For Private Personal Use Only
Twww.jainelibrary.org