SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. वृत्तिः ॥२२॥ वाप्योऽष्टौ, तत्राप्यष्टाम्वुजानि च । प्रत्येकं लक्षपत्राणि, तेष्वन्तःवर्णकर्णिकाः ॥ २० ॥ प्रासादस्तत्र तत्रेन्द्रोऽध्या- स्ताग्रमहिषीयुतः । प्रत्येकं तेषु पत्रेषु, पश्यन्नाट्यविधिं पराम् ॥ २१॥ राजन् खाराज्यसम्पत्त्या, देवराजोऽन्ययापि सः। जिनराजं नमस्कत, दशार्णगिरिमागमत् ॥ २२ ॥ प्रभुं प्रदक्षिणीकृत्य, नमतीन्द्रे गजस्थिते । गजानिमौ पदौ ग्राणि मनावार्द्रभुवीव यत् ॥ २३॥ गजाग्रपदकस्तेन, स ख्यातस्तीर्थमुत्तमम् । क्षितीशोऽथ सहस्राक्षं, निरीक्ष्ये (ग्रं।६००)ति व्यचिन्तयत् ॥२४॥ अहो रूपमहो ऋद्धिरहो स्त्रैणं च वज्रिणः। अहो भक्तिरहो शक्तिरस्यान्यत्सर्वमप्यहो ॥२५॥ ही कूपभेकवत्वर्या गर्वाल्लाघवमासदम् । ततोऽनर्थप्रदायिन्या, कृतं मेऽतः श्रियाऽनया ॥२६॥ ध्यात्वेति बुद्धिमान् धीरः, पञ्चभिर्मुष्टिभिः कचान्। उत्था (त्खा)य तत्क्षणाद्दीक्षा, प्रभुपार्थे समाददे ॥२७॥ जितमन्योऽथ राजर्षि, नत्योचे हर्षभाक हरिः । धन्यस्त्वं येन दुप्पूरा प्रतिज्ञा पूरिता खका ॥२८॥ पुनः पुनः प्रशस्यैनं, सुत्रामा खर्गमीयिवान् । क्रमाकर्मक्षयं कृत्वा, राजर्षिस्तु शिवं ययौ ॥ २९ ॥ तदेवं पूजासत्कारौ भावस्तवहेतुत्वाद्भणनीयावेवेति 'सम्माणवत्तियाए 'सन्मानः स्तवादिभिर्गुणोत्कीर्तनम् तत्प्रत्ययं, अर्थता वन्दनाद्याशंसाः किमर्थमित्याह-'बोहिलाभवत्तियाए' बोधिर्जिनधर्मप्राप्तिरिह भवे परत्रापि च सुखेन शुभसामग्र्या जीवस्य बोधिलाभः प्रेत्य जिनधर्मप्राप्तिस्तप्रत्ययम् , एषोऽपि किं निमित्तमित्याह-निरुवसग्गवत्तियाए' निरुपसर्गो जन्माधुपसर्गरहितो | मोक्षस्तत्प्रत्ययं । सम्पत् २॥ अयं च कायोत्सर्गःश्रद्धादिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह XXSCO ROSAARASSA ॥२२॥ Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy