SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Jain Education जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं जिनेभ्यो रागादिजेतृभ्यः, जापकेभ्यः अन्येषामपि उपदेशादिना रागादिजयकारयितृभ्यः, तीर्णेभ्यः भवार्णवपारगतेभ्यः, तारकेभ्यः तारयन्त्यन्यानपीति तारकास्तेभ्यः, बुद्धेभ्यो ज्ञाततत्त्वेभ्यो, बोधकेभ्योऽन्येषामपि तत्त्वज्ञापकेभ्यः, मुक्तेभ्यो भवहेतुकर्मपाशरहितेभ्यः, मोचकेभ्यो मोचयन्त्यन्यानपि मोचकास्तेभ्यः, संपत् ८ ॥ साम्प्रतं मुक्त्यवस्थामाश्रित्य नवमी संपदमाह सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुजमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं सर्व वस्तु सामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानन्तीति सर्वज्ञास्तेभ्यस्ततो द्वितीयसमये सर्व वस्तु सामान्यात्मकतया पश्यन्तीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह-इत्थमेषां दर्शनसमये ज्ञानस्यासत्त्वादस - र्वज्ञताप्रसङ्गः, नैवं, सर्वज्ञस्य केवलिनः सदैव ज्ञानदर्शनलब्धिसद्भावेपि तत्वाभाव्याद् न युगपदेकस्मिन् समये उपयोगद्वयसम्भवः, क्षायोपशमिकसंवेदने तथादर्शनात् नच चतुर्ज्ञानिनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात्, अत्र च बहुवक्तव्यम् तत्तु नोच्यते ग्रन्थगौरवभयात्, तथा शिवं निरुपद्रवम्, अचलं चलनक्रियारहितम्, अरुजं For Private & Personal Use Only w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy