SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्राद्धम. वृत्तिः ॥१९॥ नागण्यत मनागपि ॥ २१ ॥ इदानीं तु जगद्विद्वान् , सर्वसावद्यवर्जकः । साधुभिः समचित्तस्त्वं, घट्टयमानोऽपि दूयसे ॥२२॥ खस्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाभ्यधात्प्रभुम् ॥२३॥ जीयाश्चिरं यदेवं मामुत्पथे प्रस्थितं पथि। पुनः प्रावीवृतः क्षिप्रं, रथ्याविव सुसारथिः॥२४॥ मुनयोऽमी महात्मानोअमीषां पादरजोऽपि हि । वन्धं मेऽतः प्रभृत्येषां, निसृष्टं खं शरीरकम् ॥२५॥ मुक्त्वा नेत्रे शरीरेऽत्र, कुर्वतां घटनादिकम् । मनसापि न दुष्यामीत्यत्रार्थे मेऽस्त्वभिग्रहः ॥२६॥ एवं स्थिरीकृतो मेघस्तीनं तप्त्वा तपश्चिरम् । कृत्वा संलेखनां मासं, विजये त्रिदशोऽजनि॥ २७॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तो मी, धर्मसारथयो मताः ॥ २८ ॥ तथा-धर्मवरचातुरन्तचक्रवर्तिभ्यः, धर्म एव वरं प्रधानं चतसृणां गतीनामन्तकरणाचतुरन्तं चक्रमिव चक्रं मिथ्यात्वादिभावशत्रुलवात्तेन वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, अतः समृद्धयादौ वेति (८-२-४४) प्राकृतसूत्रादत्रात्त्वम् । संपत् ६॥ अथाद्याया एव सकारणत्वं खरूपसम्पदमाह अप्पडिहयवरनाणदसणधराणं वियदृछउमाणं अप्रतिहते सर्वत्राप्रतिहते बरे क्षायिकत्वाद्विशेषसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीत्यप्रतिहतवरज्ञानद धरास्तेभ्यः । व्यावृत्तच्छद्मभ्यः छादयतीति छद्म ज्ञानावरणीयादि घातिकर्मचतुष्कं तद्यावृत्तमपगतं येभ्यस्ते न्यावृत्तछमानस्तेभ्यः। संपत् ७॥ खतुल्यपरफलकृत्त्वसम्पदमाह SUGGESKOSAOSASSA OSAARECE ॥१९॥ Jain Education For Private & Personal use only Flainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy