________________
ACTROCRACACA
SACROSSESSAMROSAROSSESS
लोकोत्तमास्तेभ्यः, लोकनाथेभ्यः लोकानां विशिष्टसत्त्वानां सम्यक्त्वबीजाधानादियोजनेन रागाद्युपद्रवरक्षणेन योगक्षेमकारिणो नाथा लोकनाथास्तेभ्यः, लोकहितेभ्यः लोकाय सकलैकेन्द्रियादिप्राणिवर्गाय पञ्चास्तिकायात्मकाय वा सम्यग्ग्रहणप्ररूपणादिना हिता लोकहितास्तेभ्यः, लोकप्रदीपेभ्यः लोकस्य विशिष्टसंज्ञिरूपस्य देशनांशुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा लोकप्रदीपास्तेभ्यः, लोकप्रद्योतकरेभ्यः लोकस्य गणधरादेः प्रद्योतं विशिष्टतत्त्वप्रकाशं कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः, संपत् ४ ॥ उपयोगसम्पद एव हेतुसम्पदमाह
"अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं' अभयदयेभ्यः अभयं इह १ परलोका २७ दाना ३ऽकस्मा ४ दाजीव ५ मरणा ६७ श्लोक ७ लक्षणसप्तभयाभावं दयन्त इत्यभयदयास्तेभ्यः, चक्षुर्दयेभ्यः तत्त्वावबोधरूपज्ञानदृष्टिदातृभ्यः, मार्गदयेभ्यः मार्गश्चेतोऽकुटिलगमनेन विशिष्टगुणस्थानावाप्तिप्रवणो दर्शनमोहादिक्षयोपशमविशेषस्तं दयन्त इति मार्गदयास्तेभ्यः, शरणदयेभ्यः रागादिभयभीतसत्त्वत्राणकारिभ्यः, बोधिदयेभ्यः सदर्शनदातृभ्यः, एतानि यथोत्तरं पूर्वपूर्वफलभूतानि, तथाहि अभयफलं चक्षुश्चक्षुःफलं मार्ग इत्यादि। संपत् ५॥ अथाद्याया एव विशेषोपयोगसम्पदमाह
'धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं'
N CIENCE
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org