SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ - S श्राद्धप्र. ॥१७॥ स्वयंसम्बुद्धेभ्यः खयं परोपदेशं विना सम्यगविपर्ययेण बुद्धा ज्ञाततत्त्वाः खयंसम्बुद्धास्तेभ्यः संपत् २॥ अत्राद्याया एव || वृत्तिः हेतुं विशेषसम्पदमाह _ 'पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं' है पुरुषाणां विशिष्टसत्त्वानां मध्ये तथाखाभाव्यात् सर्वकालमसाधारणगाम्भीर्यादिगुणग्रामयोगादुत्तमाः पुरुषोत्तिमाः तेभ्यः, पुरुषसिंहेभ्यः पुरुषाणां कर्मशत्रून्प्रति ईश्वरतया सिंहा इव पुरुषसिंहाः तेभ्यः, पुरुषवरपुण्डरीकेभ्यः पुरुषा वरपुण्डरीकाणीव यथा तानि पङ्के जातानि जले प्रवृद्धानि तवयं विहायोपरि वर्तन्ते तथा अर्हन्तोऽपि कर्मपङ्के जाता भोगजलैः प्रवृद्धास्त वयं विहाय वर्तन्त इति पुरुषवरपुण्डरीकास्तेभ्यः, पुरुषवरगन्धहस्तिभ्यः पुरुषवरगन्धहस्तिन इव यथैषां गन्धेनैव क्षुद्रगजा भज्यन्ते तद्वदितिदुर्भिक्षाद्युपद्रवगजा अर्हद्वि-| हारपवनगन्धादेव भज्यन्त इति पुरुषवरगन्धहस्तिनस्तेभ्यः पुरुषवरगन्धहस्तिभ्यः, संपत् ३ ॥ आद्याया एव सामान्येनोपयोगसम्पदमाह ___'लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं' लोकोत्तमेभ्य इह लोकशब्देन भव्यसत्त्वलोको गृह्यते ततस्तन्मध्ये सकलकल्याणकृत्तया भव्यत्वभावेनोत्तमा AMACARALAMSAROKARNCREM ॥१७॥ Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy