________________
श्राद्धप्र.
॥१५॥
Jain Education
तस्यालोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिना हेतुना 'ठामि काउस्सग्गं' इति योगः, तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणमुत्तरीकरणम् । अयं भावार्थः ' यस्यातिचारस्य पूर्वमालोचनादि कृतं तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणम्, तच्च प्रायश्चित्तकरणेन स्यादित्याह - 'पायच्छित्तकरणेणं' प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयतीति पापं छिनत्तीति वार्षत्वात्प्रायश्चित्तम् तस्य करणेन हेतुना । तच्च विशुद्ध्या स्यादित्याह - ' विसोहीकरणेणं' विशोधनं विशुद्धिरतिचारापगमादात्मनो नैर्मल्यं तस्याः करणेन हेतुना । तदपि विशल्यत्वे | सति स्यादित्याह - 'विसल्लीकरणेणं' विशल्यो विगतमायादिशल्यस्तस्याविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना किमित्याह — 'पावाणं इत्यादि' पापानां भवहेतूनां कर्म्मणां निर्घातनार्थं उच्छेदनार्थं ' ठामि अनेकार्थत्वाद्धातूनां करोमि कायोत्सर्ग कायव्यापारत्यागमित्यर्थः । किं सर्वथा नेत्याह
‘अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठीसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि
For Private & Personal Use Only
वृत्तिः
॥१५॥
w.jainelibrary.org