________________
न्द्रो धवस्तव । लक्ष्यो हि लक्ष्मणा केन, समाख्याहि मृगाक्षि मे ॥ २७५ ॥ ततः पद्मसुतावोचत्प्राकृतं सुकृतं मम । यो जानाति स विज्ञेयः, प्राणेशो मम निश्चितम् ॥ २७६ ॥ बभाषे राजसिंहस्त्री, दमसारर्षिभाषितम् । मन्त्रेशमनि|शं स्मृत्वा, । मृत्वाभूस्त्वं नृपात्मजा ॥ २७७॥ श्रुत्वेति रत्नवत्याख्यच्चन्द्रलेखां सखीमसौ। किं खतः परतो वा मे वेत्ति वृत्तान्तमेतकम् ॥२७८ ॥ साख्यादेषा खतो वेत्ति, यदस्यां ते मनोरतिः । दृश्यतेऽस्या नरस्येव, चेष्टा च वचनादिका ॥ २७९ ॥ विकारास्ते स्मरस्यास्याः समीपे च स्फुरन्ति (ते)। कामशास्त्रेषु ये प्रोक्ताः, स्त्रीणां प्रियसमागमे ॥ २८॥ यदाह-स्त्री कान्तं वीक्ष्य नाभी प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान् , दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्तपाणिः। रोमाञ्चखेदजृम्भाः श्रयति कुचतट संसिवस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवी शिथिलयति दशत्योष्ठमङ्गं मनक्ति (स्रग्धरा)॥२८१॥ तत्कारणात्कुतोऽप्येष, प्राग्जन्मदयितस्तव । मर्त्यमूर्ति तिरोधाय स्त्रीत्वं चाकृत कृत्रिमम् ॥२८२॥ संज्ञिता रत्नवत्या स, कुमारस्त्रीमभाषत । स्वामिन् खाभाविकं रूपं, दर्शयाद्य प्रसाद्य नः ॥ २८३॥ द्वितीयौषधियोगेन, योगसिद्धाविव क्षणात् । प्रपन्नौ तौ निजं रूपं, जगन्नेत्रामृताअनम् ॥ २८४॥ कुमाररूपमालोक्य, राजकन्योपमातिगम् । प्रमोदं प्राप तं यस्य, सङ्कीर्णा त्रिजगत्यपि ॥२८५॥ चण्डलेखा बभापेऽथ, यथा नाथ प्रकाशितम् । रूपं तथानुगृह्यास्मान् , कुलायमपि कथ्यताम् ॥ २८६ ॥राजसिंहाज्ञया राष्ट्रपुरजातिकुलादिकम् । पान्थप्रवन्धसम्बन्धं, सर्व सुमतिरभ्यधात् ॥ २८७॥ अवेत्यैनं च वृत्तान्तं, तुष्टोऽत्यर्थमथा
ACHECCESCAMECCASSACRECENSUSA
Jain Educati
o
nal
For Private & Personel Use Only
w.jainelibrary.org