________________
श्राद्धप्र.
॥१०॥
Jain Education
यावत्तावत्सुयक्षराट् ॥ २३३ ॥ अवधिज्ञानतो ज्ञात्वा खगुरोरीदृशीं दशाम् । निर्माय पर्वतं चैकं निर्मायः सोsaवीदिदम् ॥ २३४ ॥ आकर्णयत राजाद्या, अरे रे पुरुषब्रुवाः । चूरयिष्यामि वः सर्वान्, भूधरेणामुना ध्रुवम् ॥ २३५ ॥ यदमुष्य कृपाम्भोधेर्जगतोऽपि हितैषिणः । एवं विडम्बनारब्धा, जिनदत्तस्य मत्प्रभोः ॥ २३६ ॥ ततः सरभसं राजा, सपौरः सपरिच्छदः । पुष्पादिभिः समानर्च, मृत्युभीर्महती हि भीः ॥ २३७ ॥ व्यजिज्ञपच्च नत्वैवं, स्वामिन्नः | क्षम्यतामिदम् । अज्ञानादपराद्धं यत्सन्तो हि नतवत्सलाः ॥ २३८ ॥ यक्षोऽवोचदमुं श्राद्धं श्रयध्वं शरणं जनाः । कारयध्वं च पूर्वस्याम्, मदायतनमुच्चकैः ॥२३९॥ ततो राजा समारोप्य, श्रेष्ठिनं गन्धसिन्धुरे । पुरे प्रवेशयामास, क्षमयामास चासकृत् ॥ २४० ॥ तथा हुण्डिकयक्षस्य, चैत्यमेतदकारयत् । शूलाभिन्नां च तन्मूर्त्ति, श्रावकप्रतिमायुताम् ॥ २४१ ॥ इत्याकर्ण्य नृपात्मजः प्रमुदितो मित्रं प्रतीदं जगौ, चौरोऽप्येष नमस्कृतिस्मृतिवशाज्जज्ञे | यथा यक्षराट् । तद्वद्राजकुलेऽधुना समभवं पूर्व पुलिन्द्रोऽप्यहम् कीदृग् भोः परमेष्ठिमत्रललितं प्रेत्यात्र सम्प्रेक्ष्यते ॥ ( शार्दूलविक्रीडितम् ॥ २४२ ॥ श्रुत्वेति सुमतिः प्रोचे, राजपुत्रं कृतादरः । पुलिन्द्रता कथं तेऽभूद्, ब्रूहि सौहार्द सुन्दरम् ॥ २४३ ॥ कुमारोऽपि नमस्कारसारं पूर्वभवं निजम् । हर्षप्रकर्षादाचख्यौ सख्युरग्रे यथास्थितम् ॥ २४४ ॥ स्मित्वाऽथ सुमतिः प्रोचे, मन्ये रत्तवतीं भवान् । परिणेतुं पुराजन्मपत्नीं प्रचलितो ननु ॥ २४५॥ वेषेण पुरुषस्यैषा, पुरुषद्वेषिणी कथम् । संवीक्षितुमपि प्राप्या, दूरे सम्भाषणादिकम् ॥ २४६ ॥ सोऽवोचत्सर्वकार्येषु, सावधानो विधिः सखे ! |
७
For Private & Personal Use Only
वृत्तिः
॥१०॥
ainelibrary.org