SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मत्प्रमादादयं प्रापदवस्थामीदृशीं हहा ॥ १९१ ॥ कृतं मत्तो विमुच्यनमपरैः पुरुषैः खलु । सम्प्रत्येतस्य दास्या|मि, परमेष्ठिनमस्क्रियाम् ।। १९२ ॥ ध्यात्वेति धीमती तत्र, गत्वा पञ्चनमस्कृतिम् । श्रेयस्करीमदात्तस्मै, तस्करा य यशस्करीम् ॥ १९३॥ नमस्कारवशादस्य, सुतः स्यां भूपतेरिति । निदानं कारयामास, तं समन्त्रं परीक्षितुम् है॥ १९४ ॥ मृत्वाऽमुष्य महीशस्य, दुष्कर्मापि स तस्करः। महादेव्याः सुतो जज्ञे, नमस्कारो हि कामधुक्॥१९५॥ ततोऽस्यातिप्रबन्धेन, कृत्वा जन्मोत्सवं पिता । पुरन्दर इति ख्यातं, नामधेयं मुदा व्यधात् ॥ १९६ ॥ तन्मृत्योरस्य गर्भस्य, कालं ज्ञात्वा कलावती। समानं मनसाऽध्यासीन्नन्वेष स मम प्रियः ॥ १९७ ॥ रमयन्ती ततो भूप-5 नन्दनं सा मुहुर्मुहुः ॥ कुर्वन्तं रोदनं प्राह, मा रुदश्चण्डपिङ्गल ॥ १९८॥ नाम खं प्राच्यमुत्कर्णो, नित्यमाकर्णयनसौ । पश्यन्नास्यं तथैतस्याः, सस्मार प्राग्भवं निजम् ॥ १९९ ॥ गतेऽथ जितशत्रौ यां, नृपोऽत्राभूत्पुरन्दरः। मां मत्वा, भेजे चासौ कलावतीम् ॥२०॥ परमेष्ठिनमस्कार-फलमेतदवेत्य सः । जिनधर्मरतोऽधीते, सदा पञ्चनमस्कृतिम् ॥ २०१॥ ततोऽसौ सर्वलोकोऽपि, तामधीते कृतादरः। न खल्वेषा मृषा भाषा, यथा राजा तथा प्रजाः ॥२०२॥ अथ सुमतिमुखेनाख्यातमेतन्निशम्य, क्षितिपतिसुत एपोऽत्यन्ततुष्टान्तरात्मा । सुहृदमिदमवो|चत्पश्य मन्त्रेश्वरस्य, स्फुरितमिति परत्रामुष्य चौरस्य कीटक (मालिनी)॥२०३॥ सम्प्रति प्रेत्यफल एव हुण्डिकयक्षहटान्तो वितन्यते। राजसिंहस्ततोऽ (प्यग्रे,) न्यत्र गच्छन् सुमतिसंयुतः। मथुरायां दिशि प्राच्यां, यक्षायतनमैक्षत | - SAS Jain Educatio t ional For Private Personal Use Only w.aneiorary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy