SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥८ ॥ HOMEMAMALAXMASOME वसन्तपुरमासदत् ॥ १७६ ॥ तत्राशेषजनं वीक्ष्य । स नमस्कारतत्परम् । सुमतिं प्रत्युवाचैवं, विस्मयस्मेरमानसः ॥ १७७ ॥ मित्रावत्यः समस्तोऽपि, लोकः पञ्चनमस्कृतिम् । पापठ्यते विना शाठ्यं, तदत्रावेहि कारणम् ॥१७८॥ कुतश्चित्पुरुषादेष, तदवेत्य समेत्य च । कुमारस्य पुरोऽवादीजितमारस्य रूपतः ॥१७९॥ परन्तपः पुरेऽत्रासीजितश-15 त्रुर्महीपतिः । भद्राभिधाना तस्याभूद्देवी भद्रगुणान्विता ॥ १८० ॥ चोरः कदाचिदत्रैत्य, कुतश्चिचण्डपिङ्गलः । प्रचण्डश्चौरिकां कुर्वन् , पुरमेतदपीडयत् ॥१८१॥ भूमिभुजोऽन्यदा भित्त्वा, भाण्डागारमसौ ततः। जहे मनोहरं हारं, नक्षत्रश्रेणिसुन्दरम् ॥ १८२॥ गुणतोऽपि कलावत्याः, कलावत्याः स तस्करः। गणिकाया गृहे गत्वा, हारं तस्यै ददौ मुदा ॥१८३॥ स किंचिच्छ्राविका सोऽपि, भेजे भोगाँस्तया समम् । आगादथ कृतानगरङ्गानङ्गत्रयोदशी ॥ १८४ ॥ वेश्यास्तस्यामयुः सर्वाः, सर्वा क्रीडितुं वने । दिक्चक्रे शक्रचापश्रीस्तन्वाना रत्नभूषणैः ॥१८५॥ कलावत्यपि तं हारं, बिभ्रती हृदि ताः समाः। जेतुकामा खरूपेण, कामपत्नीव निर्ययौ ॥१८६॥ महादेव्यास्तदा दास्यस्तत्र जग्मुर्निरीक्षितुम् । वीक्ष्योपलक्षयामासुस्तं हारमतिहारिणम् ॥ १८७ ॥ भद्रान्तिके द्रुतङ्गत्वा, दास्यस्तास्तं न्यवीविदन् । एषाप्याख्यत् क्षितीशाय, सोऽप्युवाचेति वेत्रिणम् ॥१८८॥अद्य कल्पे वसत्येषा, केन साधे कलावती । तं ज्ञात्वा दस्युना चण्डपिङ्गलेनेति सोऽवदत् ॥ १८९॥ कलावत्या गृहं राजा, वेष्टयित्वा समन्ततः। ग्राहयित्वा च तं चौर, शूलिकायामऽचिक्षिपत् ॥ १९ ॥ ज्ञात्वा तं शूलिकाविद्धं, दध्याविति कलावती। कायामऽचिनति सोऽवयवाचेति के Join Education For Private Personal use only N ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy