SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वत्तिः श्राद्धप्र. ROKARISMASACCUSACROCOCK ॥१४८॥ तदानन्दमयं वीक्ष्य, सबाह्याभ्यन्तरं तदा । विस्मितः स्माह तत्रत्यम्, मत्य कञ्चिन्नपात्मजः ॥ १४९ ॥ किंनिमित्तमिदं वलाद्-विलासोलाससुन्दरम् । ऊवीकृतपताकौघम् , प्रत्यक्षं प्रति मन्दिरम् ॥ १५०॥ वर्णस्तम्भोपरिन्यस्तप्रशस्तमणितोरणम् । विधीयमानमाङ्गल्यं, दधिर्वाक्षतादिभिः॥ १५१॥ दृश्यते नगरं सर्व, प्रमोदभरनिर्भरम् । इत्युक्तः स पुमानूचे, कुमार! श्रूयतामिदम् ॥ १५२ ॥ पुरेऽत्राऽस्ति महीपालो, बली नाम महाबलः । बलानुज इवारातेलिनो बलसूदनः ॥१५३॥ वृष्टेऽन्यदाम्बुदेऽत्यर्थ, पृथुपूरप्रवाहिनीम् । वाहिनी नगरासन्नां, जनो , द्रष्टुमगाइतम् ॥ १५४ ॥ दक्षमुख्यः पुरारक्षस्तत्रैकं बीजपूरकम् । प्लाव्यमानं पयःपूरैर्महामानमुदैवत ॥ १५५ ॥ प्रविश्य तरसा तत्र, तदादाय च तत्वयम्। गत्वा समर्पयामास, बलराजस्य सोऽअसा ॥१५६॥ वर्णतो गन्धतश्चापि दृष्ट्वोत्कृष्टं सुपुष्टिकृत् । सुखादु च तदाऽऽखाद्य, मुमुदे मेदिनीपतिः॥ १५७ ॥ राजा सत्कृत्य तं प्रोचे, कुतः प्राप्तमिदं त्वया । सोऽप्युवाच नदीपूरे, ततो राजा तमभ्यधात् ॥१५८॥अमुष्य मातुलिङ्गस्य, मूलोत्थानं गवेषय । नद्यास्तीरे ब्रजन्नूर्वमेष प्रैक्षिष्ट तद्वनम् ॥१५९॥ तदन्तः प्रविशन्नचे, स गोपैस्तत्समीपगैः। भो अत्र यः फलं लाति, मृत्युमेति स निश्चितम् ॥ १६॥ व्यावृत्त्य तमसौ राजे, वृत्तान्तं प्रत्यपीपदत् । राजा तु त्यक्तमर्यादस्तं प्रतीदमभाषत ॥१६॥ प्रवि(वे)श्य तत्र वारेण, पुरादेकैकमानुपम् ।आनेतव्यं त्वयावश्यं, वीजपूरं ततोऽन्वहम् ॥१६२॥ १. ग्रन्थानं २००. GOOCRACTARS SARKARIOR JainEducation inall For Private & Personal Use Only www.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy