________________
श्राद्धप्र.
वृत्तिः
ARRRRRRRICADAINIK
तदासन्ने, त्रिदण्ड्येको निषेदिवान् । शिवं निरीक्ष्य निःश्रीकं, कृपालुरिव सोऽब्रवीत् ॥ ९४ ॥ विषण्ण इव वत्स त्वं, वीक्ष्यसे हेतुतः कुतः। शिवोऽथाख्यन्न सन्तोषकोषकोऽर्थोऽस्ति नाथ मे ॥ ९५॥ परिव्राट् तं प्रति प्रोचे, वचश्चेन्मे करिष्यसि । गृहदासीव ते वश्या श्रीरवश्यं भविष्यति ॥ ९६ ॥ शिवोऽवोचद्वचखिंस्ते, करिष्ये निश्चितं वचः । त्वत्प्रसत्त्या प्रयात्वेषा, सापल्यादिव निःस्वता ॥ ९७ ॥ सोऽप्यूचे वत्स यद्येवं, कुतोऽप्यानय तच्छवम् । अक्षतं सोऽपि तं प्राप, तदोबद्धं नरं द्रुमे ॥ ९८ ॥ रात्रौ कृष्णचतुर्दश्यां शिवेनानाय्य तं शवम् । त्रिदन्डी कुसु-18 मादींश्च, श्मशाने खयमप्यगात् ॥ ९९ ॥ कुत्रापि यच्छारदमेघशुभ्रादभ्रास्थिभिर्जातमियोपदन्तम् । कुत्रापि चित्या| ज्वलितानलोद्यज्वालाचयैः पल्लवितान्तरिक्षम् ॥ १०॥ तत्रापि निःशङ्कविकीर्णकेशदुःशाकिनीक्रीडनदुर्निरीक्ष्यम् । कुत्रापि कङ्कालकरालकालवेतालमालाकलितादृहासम् ॥ १.१॥ कुत्रापि रक्षोभिरतीव भीष्म, कुत्रापि भूतैरतिभीतिहेतुः । कुत्रापि घूघूत्कृतिघोरघूकं, कुत्रापिरौद्रं च शिवारवेण ॥ १०२॥ त्रिभिर्विशेषकम् । त्रिदण्डी मण्डलं तत्र, दीप्रदीपकमण्डलम् । चक्रे तत्र न्यधात्तीक्ष्णं, खड्गव्यग्रकर शवम् ॥१.३॥ मृतकांहितलाभ्यङ्गविधावादिश्य तं शिवम् । खयं तु निश्चलखान्तो, मन सस्मार दुष्टधीः॥१०४॥ खान्ते खस्मिन् शिवोऽध्यासीत् , दैवादापद्गतोऽथ सः। प्रचुरोपद्रवं तावत् , स्मशानं भीषणा क्षपा ॥ १०५॥ कपाली क्रूरकर्मायमकोशासिकरः शवः । निहन्तुं मेऽस्य तन्ननं, सर्वोऽप्ययमुपक्रमः ॥ १०६ ॥ नेशे सम्प्रति नष्टुं तत्किं कुर्वे कस्य वा वे। एवं जातभयोऽस्मार्षी
॥५॥
Jan Education
For Private & Personal Use Only
vidainelibrary.org