SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥९ ॥ साधू संलेखना ज्येष्ठामारेभाते समाहितौ ॥३॥ तत्रासीद्विनयवती, यथार्था च प्रवर्तिनी । विनीता तद्विनेया त्वभूद्विगतभयाभिधा ॥४॥ साऽन्यदा संघमापृच्छय, प्रपेदेऽनशनं ततः। चमत्कारकरी चक्रे, चिरं पौरैः प्रभावना ॥५॥ देवभूयङ्गतायां हि, तस्यां सर्वात्मना पुनः। सजनानन्दजननी, पूजाऽजन्यत पूर्जनैः ॥६॥ दृष्ट्वैतद्धर्मघोपर्षिर्दध्यौ धन्येयमार्यिका । जीवत्याश्च मृतायाश्चेदृशी यस्याः प्रभावना ॥७॥ पुरेऽत्राऽनशनं कुर्वे, ततोऽहमपि | साम्प्रतम् । पूजा ममापि येनेदृक, प्रेत्यात्रापि प्रवर्तते ॥ ८॥ ततः सोऽनशनं तत्र, चक्रे धर्मयशाः पुनः। चिन्तयामास धर्मेण, जनज्ञातेन किं मम ! ॥९॥ध्यात्वेति गुरुमापृच्छय, गत्वा च गिरिकन्दरे। तीरस्थे वच्छगानद्या, उज्जयिन्या अवान्तरे ॥१०॥ प्रपद्यानशनं तत्र, पादपोपगमाभिधम् । निर्भीकः सिंहवत्तस्थावेकाकी सुस्थिराशयः |॥ ११ ॥ इतश्चोजयिनीपुर्या, चन्द्रप्रद्योतनन्दनः। शिवाङ्गजोऽभवन्नाम्ना, पालकोऽवनिपालकः ॥ १२॥ युवराजो लघुस्तस्य, भ्राता गोपालकः स तु । निष्क्रान्तो लघुकर्मत्वात्त्यक्त्वा तृणमिव श्रियम् ॥१३॥ पालकस्य तु जज्ञाते, तनयो नयशालिनौ । अवन्तिपर्धनो ज्येष्ठः, कनिष्ठो राष्ट्रवर्द्धनः ॥१४॥ राज्ये च यौवराज्ये च, पालकोऽपि निवेश्य तौ । राजावद्राज्यमुत्सृज्य, संयमश्रियमग्रहीत् ॥१५॥ धारिणीनामिका राष्ट्रवर्द्धनस्य प्रियाऽभवत्। रूपेणाप्रतिरूपागी, सुतश्चावन्तिसेनकः॥१६॥धारिणीमन्यदोद्याने, नरेन्द्रोऽवन्तिवर्द्धनः । विलोक्य लोचनाम्भोज-प्रभाकरविभानिभाम् ॥१७॥ स्मरातःप्रार्थयांचवेऽत्यर्थ दूतीमुखेन ताम् । धारिण्युवाच राजन् ! किं, न भ्रातुरपि लजसे? ॥१८॥ 5॥९॥ in duelan For Private & Personal Use Only C ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy