SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ इहलोए परलोए, जीवियमरणे य आस(सं)सपओगे। पंचविहो अइयारो,मा मज्झं हुज मरणंते॥३३॥ अत्राशंसाप्रयोगः इति सर्वत्र योज्यं, तत्र प्रतिक्रामकं प्रतीत्येहलोको नरलोकस्तत्राशंसा राजा स्यामित्याद्यमिलाषस्तस्याः प्रयोगो व्यापार इहलोकाशंसाप्रयोगः१। एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः २। तथा कश्चित्कृताऽनशनः प्रभूतपौरजनवातविहितमहामहोत्सवावलोकनात्, प्रचुरवन्दारुवृन्दवन्दनसंमर्ददर्शनात् , अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात्, पुरतः संभूय भूयो भूयः सद्धार्मिकजनविधीयमानोपबृंहणश्रवणात् ,अनघसमस्तसहजनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्यादिसत्कारनिरीक्षणाचैवं मन्यते-प्रतिपन्नानशनस्यापि जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुपदे(हे)शेन विभूतिवर्तत इति जीविताशंसाप्रयोगः३।तथा कश्चित् कर्कशक्षेत्रे कृताऽनशनः प्रागु क्तपूजाद्यभावे क्षुधाद्यातॊ वा चिन्तयति-'किमिति शीघ्रं न म्रियेऽह' मितिमरणाशंसाप्रयोगः ४ । तथा काम|| भोगाशंसाप्रयोगः तत्र कामौ शब्दरूपौ, भोगा गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात्प्रेत्य सौभाग्यादि भूया-1 दिति, एष पञ्चविधोऽतिचारो मा मम भूयान्मरणान्ते यावच्चरमोच्छ्वासइ ति । अत्र धर्मघोषधर्मयशसोतिम्-इहैव में | भरतक्षेत्रे, कौशाम्ब्यामभवत् पुरि। भूपालोऽजितसेनाख्यो, धारिणीति च तत्प्रिया ॥ १॥ अन्यदा वृद्धवासेन, तस्यां पुर्यां बहुश्रुताः । सूरयो धर्मवखाख्यास्तस्थुः संयमसुस्थिताः ॥२॥ तदन्तेवासिनी धर्मघोषधर्मयशोऽभिधौ । Jain Educa t ional For Private & Personel Use Only W w w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy