SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥८८॥ Jain Education सः । आचचक्षेऽतिथिसंविभागाख्यं द्वादशं व्रतम् ॥ ५६ ॥ तिथिपर्वोज्झिता येन, सोऽतिथिस्तस्य सङ्गतः । आधा| कर्मादिभिर्दोषैरदुष्टोऽन्नादिवस्तुनः ॥ ५७ ॥ विभागो भक्तितो दानमित्येतत् द्वादशं व्रतम् । समग्रभोगसामग्रीसंपत्येकनिबन्धनम् ॥ ५८॥ युग्मम् । वर्ज्याः पञ्चात्र दोषास्तु, सचित्तक्षेपणादिकाः । दानलाभादिलब्धीनां पञ्चानामपि घातकाः ॥ ५९ ॥ इत्याकर्ण्य सकर्णास्ते, गृहिधर्ममशिश्रियन् । धन्यंमन्या ययुर्गेहे, व्यहार्षीत्स मुनिस्ततः ॥६०॥ ज्येष्ठः सुहृत् सुराष्ट्रासु, वाणिज्यार्थं गतोऽन्यदा । तत्र रैवतकासन्ने, कस्मिन्नपि पुरे स्थितः ॥ ६१ ॥ कार्तिके पौषधं चक्रे, चतुर्मासकपर्वणि । पालयित्वा च तत्सम्यक्, द्वितीयेऽह्नि त्वपारयत् ॥ ६२ ॥ मध्याह्नसमये सोऽथ, भोजने परिवेषिते । दध्यौ दानमदत्त्वाऽद्य, कथं जेमिष्यते मया ॥ ६३ ॥ महर्षिर्यदि कोऽप्येति, कुतश्चिन्मम भाग्यतः । संविभागं ततः कृत्वा, भुञ्जेऽहमिति शुद्धधीः ॥ ६४ ॥ स्मृत्वा पञ्चनमस्कारं कृत्वा दिगवलोकनम् । भोक्तुं प्रचक्रमे यावत्, गृहीत्वा कवलं करे ।। ६५ ।। तावद्रविडराजर्षिः, स्थित्वा वर्षासु तद्गिरौ । पारणार्थं समायातश्चतुर्मासीमु | पोषितः ॥ ६६ ॥ एषोऽपि सहसाऽनभ्रवृष्टिवद्वीक्ष्य हर्षभाक् । अभ्युत्थाय नमस्कृत्य, भक्त्या तं प्रत्यलम्भयत् ॥६७॥ | सुपात्रदानतस्तत्र, पञ्च दिव्यानि जज्ञिरे । एषोऽत्रापि भवे जज्ञे, धर्मकामार्थभाजनम् ॥ ६८ ॥ कनिष्ठोऽपि सुहृत्तत्र, | पारणाहन्यदित्सया । कृत्वा पञ्चाप्यतीचारान्, सचित्तक्षेपणादिकान् ॥ ६९ ॥ ततो मध्यममित्राय, प्रच्छन्नं तद| चीकथत्। सोऽप्यूचे सुष्ठु ते जज्ञे न दत्तं न प्रतक्षतिः ॥ ७० ॥ कालेन ते त्रयो मृत्वा देवा भूत्वा ततश्युताः । tional For Private & Personal Use Only वृत्तिः મઢઢના w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy