________________
श्राद्धप्र.
CHOSEN
॥८॥
गैरवोऽन्यत्र, कुमारोऽपि क्रमादसौ। संप्राप्य पैतृकं राज्यं,सद्धर्म च चिरं व्यधात् ॥६४॥ विधायाराधनां सम्यग, राजा मेघरथस्ततः । मृत्वा स्वर्गादिसौख्यानां, सद्भाजनमजायत ॥६५॥ एवं मेघरथस्य च वृत्तं, भो भो भव्यजना ! विनिशम्य । तत्सामायिकमादरवन्तो, भूयो भूय इह प्रकुरुध्वम्॥६६॥ (उद्धृतम् ) सामायिकवते मेघरथकथा॥२७॥ ___ अधुना देशावकाशिकं, तत्र योजनशतादिना यावज्जीवं गृहीतदिगव्रतस्य गृहशय्यास्थानादेः परतो गमननिषे-18 धरूपं पूर्वव्रतसंक्षेपकरणरूपं वा, यथा केनचिद्वरमात्रिकेण पूर्व द्वादशयोजनप्रमाणविषयव्यापकमाशीविषविषभृद्विपमदृग्विषप्रसरमपसारयता पश्चादीपत्क्षेत्रविषयेऽवस्थापितं, यथा वा सर्वाङ्गगतगरलमङ्गल्येकदेशे, तथैतदपि मुहूर्ता| दिकालावधिना आरम्भैकदेशेऽवकाशोऽवस्थानं तेन निवृत्तं देशावकाशिकं, यदुक्तं “एगमुहुत्तं दिवस, रायं पञ्चाहमेव अापक्खं वा। वयमिह धारेह दढं, जावइ उच्छहे कालं ॥१॥" अस्यातिचारप्रतिक्रमणायाह| आणवणे पेसवणे, सदे रूवे अ पुग्गलक्खेवे । देसावगासिअंमी, बीए सिक्खावए निंदे ॥ २८ ॥ - गृहादौ कृतदेशावकाशिकस्य गृहादेर्वहिस्ताकेनचित्किञ्चिद्वस्त्वानयत आनयनप्रयोगः १ एवं प्रस्थापयतः प्रेष्यप्रयोगः २ गृहादेवहिःस्थितस्य कस्यचित् कासितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपातः ३
एवं वरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्ष्यमाणस्य रूपानुपातः ४ नियन्त्रितक्षेत्राद्वहिर्लेष्ट्वा ४.पणेन खकाय स्मारयतः पुद्गलक्षेपः ५ देसावगासिअंमी इत्यादि प्राग्वत् । अत्र पवनञ्जयकथेयम्
* ROSASUSASTR OS*
॥८
॥
LOC
Jain Educatio
n
al
For Private & Personel Use Only
jainelibrary.org