SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education |ऽनिमिषौकोऽनिमेषताम् ॥ २१ ॥ गर्भेऽमुष्याः पुलिन्द्रोऽसौ गुहायामिव केशरी । सिंहखशेन विख्यातो, गुणव्यू| होऽवतीर्णवान् ॥ २२॥ जातस्य तस्य पुत्रस्य, पिता जन्मोत्सवं मुदा । खप्नतुल्यं तदा नाम, राजसिंह इति व्यधात् ॥ २३ ॥ अक्लेशेन कलास्तेन, गृहीता गुरुसन्निधौ । द्वासप्ततिरतिप्रौढप्रज्ञाप्रागल्भ्यशालिना ॥ २४ ॥ मतिमान् सुमतिर्नाम मतिसारस्य मन्त्रिणः । सुतस्तस्य सुहृज्जज्ञे, कलाकौशलपेशलः ॥ २५ ॥ कुमारः प्राप तारुण्यं, लाव|ण्यकमलालयम् । ललनालोचनालीनां यत्सदाम्भोजखण्डवत् ॥ २६ ॥ प्रेक्षमाणाः स्त्रियो मार्गम्, तद्दर्शनसमुत्सुकाः । नेत्रैः कुर्वन्ति नीलाजकल्पैर्दत्तोपहारकम् ॥ २७ ॥ तद्दर्शनसतृष्णानां तरुणीनां विनिर्गतैः । गवाक्षेषु मुखैर्व्योम, लक्ष्यते शशिलक्षयुक् ॥ २८ ॥ नार्यः स्तुवन्ति गायन्ति तं पश्यन्ति तथाप्यसौ । मनागपि मनस्तासु, मुनीन्द्र इव न व्यधात् ॥ २९ ॥ कदाचिद्राजसिंहोऽथ, समित्रो निर्गतो वहिः । वाहयित्वा बहून् वाहान्, विशश्राम तरोस्तले ॥ ३० ॥ दृष्ट्वा च पथिकं कञ्चित्कुमारस्तमभाषत । कुतस्त्वमागा गन्तासि, क्वापश्यः किञ्चिदद्भुतम् ॥ ३१ ॥ पथिकोऽपि तमानम्योपविश्य पुरतोऽवदत् । विकिरन्निव हारौघं प्रसरदशनांशुभिः ॥ ३२ ॥ शृणु कुमार सुकोविदराजितम्, जितहृषीकमुनित्रजपावितम् । वितरदद्भुतदानसुमानवम्, नववयस्तरुणीगणसुन्दरम् ॥३३॥ हरभरापगमाश्रितसंमदम्, मदजलक्षरणोत्तमवारणम् । रणशताजितसद्भरक्षितम्, क्षितिरुजादिविवर्जितपूर्जनम् ॥ ३४ ॥ जनकृताऽर्हतसद्म महामहम्, महदिवास्ति हि पद्मपुरं पुरम् । पुरवराच ततोऽहमिहागमम्, गमनमिच्छुरथो शृणु यत्र तत् For Private & Personal Use Only ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy