SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥७७॥ मन्त्रं, नृपायाख्यन्नपोऽभ्यधात् । सचिवेदृग्मतेर्दाता, वध्योऽयं प्राग वणिगूसुतः ॥ ४९ ॥ ततो नृपनरैर्बद्धा, क्षिप्तोऽसौ गुप्तिवेश्मनि । तत्कुटुम्बं विडम्ब्योचै-स्तस्यैव पुरतो हतम् ॥ ५० ॥ दुःखातः सोऽपि मृत्वाधे, नरके नारकोऽभवत् । तस्मादुद्धृत्य तिर्यक्षु, हिण्डित्वैकं भवं ततः॥५१॥ जातो भाण्डकुले तत्र, कन्दमर्यादिपरो मृतः। व्यन्तरोऽजनि स च्युत्वाऽभूस्त्वं पुत्रः पुरोधसः ॥५२॥ तद्भोः पूर्वभवाभ्यासाच्चित्रगुप्ताधुनापि हि । केलीकिलत्वमेतत्तेऽनर्थदण्डस्य कारणम् ॥५३॥ चित्रगुप्तो निशम्येति, जातजातिस्मृतिस्ततः । भृशं भवभ्रमीतो, भ्रान्तिभीतो(युक्तो )ऽग्रहीत्तपः॥५४॥गुरुं प्रणम्य राजाद्या, धर्म लात्वा विशेषतः। ययुः स्वस्थानमन्यत्र,विहाँ मुनयोऽपि ते ॥५५॥ चित्रगुप्तमुनिः सोऽथ, सार्थकं वाप्यनर्थकम् । मनोवाकायजं दण्डं, दुस्त्यजं सर्वथाऽत्यजत् ॥५६॥ मनोवाक्कायजं वीक्ष्य(य), ज्ञानाद्याचारगोचरम् । अनिगृह्य ततोजज्ञे, इहामुत्र सुखास्पदम् ॥५७॥ एवं ज्ञात्वा भविकजनतेऽनर्थदण्डं सुधर्मद्रव्यादीनां क्षयकरमहानर्थसाथैकहेतुम् । तस्मात्सर्व परिहर तक खीयशक्त्या सदैवाक्षामक्षेमप्रचयपदवी स्यात्करान्तर्गता यत् ॥ ५८ ॥ (मन्दाक्रान्ता) अनर्थदण्डव्रते चित्रगुप्तकथा ॥ २६ ॥ साम्प्रतं शिक्षात्रतानि, तत्र प्रथमं सामायिकं, तत्खरूपं च प्रतीतं, तस्यातिचारप्रतिक्रमणायाह-- | तिविहे दुप्पणिहाणे,अणवट्ठाणे तहा सइविहूणे। सामाइअ(ए)वितहकए,पढमे सिक्खावए निंदे ॥२७॥ ॥७७॥ Jain EducationliDITORE For Private & Personel Use Only www.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy