SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥७४॥ स्त्वमत्र भोः ॥ ३५ ॥ इत्यहङ्कारपूर्णात्मा, प्रभूतप्राभृतान्वितः। उपतस्थौ पदाकाङ्क्षी, सुप्रभः पृथिवीपतिम् ॥३६॥ वृत्तिः वितीर्ण तत् नृपेणास्मै, ततःप्रभृति सुप्रभः । निस्त्रिंशः सर्वकार्येषु, प्रावर्तत कृतान्तवत् ॥३७॥ चौरैर्विदिततद्वत्तः, किं करिष्यत्यसौ वणिक् । विचिन्त्येति गृहे रात्रौ,प्रविश्यासौ हतस्ततः ॥३८॥ देवक्यपि ततः शोकाद्वि (वि) रक्ता धर्मतोऽधिकम् । कृतं विघ्नकृतानेन, धर्मेणेति निनिन्द तम् ॥३९॥ तस्या निश्यन्यदानन्त्या गच्छतोपरि भोगिना। मुक्तेन गरलेनैषा, विपेदे तद्विषार्दिता ॥ ४० ॥ ततो देशान्तरस्थस्य, मेघस्य श्रेष्ठिनोऽन्यदा । ज्ञापिते ज्ञातिभिस्त|स्मिन् , वृत्तान्तेऽसौ व्यचिन्तयत् ॥ ४१ ॥ हहा धर्मप्रमादोऽय-मिहैवानेकदुःखकृत् । प्रमादहेतुनानेन, गृहवासेन तामे कृतम् ॥ ४२ ॥ मेघोऽनघमतिर्ध्यात्वा, गत्वा गुर्वन्तिके ततः । दीक्षा कक्षीकरोति स्म, दक्षो मोक्षसुखावहाम् है।॥ ४३ ॥ अघौघरहितो मेघस्ततोऽसौ प्राप सद्गतिम् । देवकीसुप्रभौ तौ तु, भ्रमतुर्भवमेव हि ॥ ४४ ॥ इति सुनि पुणं ज्ञात्वा भोगव्रतस्य विराधना-प्रभवमसमं दुःखत्रातं चतुर्गतिके भवे । तदिह सततं भङ्गासङ्गं विवर्जयताददारात्, भवतः सुखिनो येनामुष्मिनिहापि विवेकिनः ॥४५॥ (हरिणी) भोगव्रते मेघकथा ॥ २३॥ साम्प्रतमनर्थदादण्डाख्यं तृतीयं गुणव्रतं, तत्रार्थो देहखजनादीनां कार्य, तदभावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते पापकर्मणा विलुप्यते येन सोऽपध्यानाचरितादिकश्चतुर्द्धानर्थदण्डस्तस्य मुहूर्त्तादिकालावधिना निषेधोऽ-13/॥४॥ नर्थदण्डव्रतं, तत्र पापध्यानाचरितं यथा-"वैरिव्रजोद्वन्धवधव्यथादेविद्याधरेन्द्रत्वनरेन्द्रतादेः।रौद्रातभावाकुलितस्य - -- Jain Education For Private Personal Use Only Inा H ainelibrary.org -
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy