________________
Jain Education
॥ २० ॥ तत्पार्श्वे प्राग्भवं श्रुत्वा स्मृत्वात्मकृतदुष्कृतम् । निष्क्रान्तस्तदिदं मेऽघं, मेघ ! व्याधिनिबन्धनम् ॥२१॥ श्रेष्ठी श्रुत्वेति तत्पार्थे, भववैराग्यभृद्भृशम् । सप्तमं व्रतमादत्त, देवकीसुप्रभान्वितः ॥ २२ ॥ मेघोऽथ सपरीवारस्तं प्रणम्य महामुनिम् । धन्यंमन्यो ययौ गेहं मुनिस्त्वन्यत्र सोऽगमत् ॥ २३ ॥ कियत्काले गतेऽनन्तभवाभ्यस्तप्रमादतः । साधुसाधर्मिकाणां च, संसर्गाभावतोऽपि च ॥ २४ ॥ तथा च गुरुकर्मत्वाद्देवकीसुप्रभौ भृशम् । शैथिल्यं चक्रतुः पूजा-नुष्ठाने निरतावपि ॥ २५ ॥ ततो मेघोऽभ्यधादेतो, किमेवं भोः प्रभादिनौ । वरं विषं वरं वैरी, नत्वेषोऽनन्तदुःखकृत् ॥ २६ ॥ शिक्षितावपि तावेवं ज्ञात्वा प्राग्वत्प्रमद्वरौ । श्रेष्ठी श्रेष्ठतमं धर्म, विशेषेण व्यधत्त सः ॥ २७ ॥ तस्येया तु तौ धर्मे, प्रमाद्यन्तौ विशेषतः । वीक्ष्य श्रेष्ठी विषण्णात्मा, व्यराङ्की ( रंसी ) द् ग्रहवासतः ॥ २८ ॥ किंचिच्छम्बलमादाय, तीर्थयात्रा मिपात्ततः । निर्गत्य भुवनं (म ) भ्राम्यन्नमस्य स्तीर्थभूमिकाः ॥ २९ ॥ ततो निरङ्कुशौ तौ तु, ववृताते धनान्धितौ । सर्वत्र यतनामुक्तौ निःशङ्कौ खरकर्मसु ॥ ३० ॥ गृहसारेऽन्यदा दासभेदेन परमोषिभिः । मुषिते सुप्रभो गत्वा राज्ञोऽग्रे तदचीकथत् ॥ ३१ ॥ राजाप्यारक्षकं प्रोचे, रे रे कोऽयमुपद्रवः । सोऽप्यूचे नास्ति गन्धोऽपि, चौरस्यान्यत् किमुच्यते ॥ ३२ ॥ राजाख्यत्तर्हि रेऽमुष्य, तातेनामोषि किं गृहम् ? । सोऽप्यूचे घट| तेऽदोऽपि, मेलो नास्त्यनयोर्यतः ॥ ३३ ॥ श्रेष्ठयूचे स्तोकमेवैतत्त्वया तलवरेण भोः । आक्षिप्यारक्षकोऽप्याख्यत्तर्हि त्वं लाहि मे प ( मत्प ) दम् ||३४|| सुप्रभोऽथ स्फुरत्कोपः, प्रोचे यद्यस्मि कोऽप्यहम् । नूनमेवं करिष्ये तन्मा त्वरिष्ठा
I
For Private & Personal Use Only
jainelibrary.org