SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ RERMANCAR बीभच्छं । रक्खसपरितुलियभक्खगमामयजणयं कुगइमूलं ॥१॥" चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च परिग्रहः। तानि पञ्चोदुम्बर्यादीनि, पुष्पाणि करीरमधूकादिकुसुमानि चशब्दात्रससंसक्तपत्रादिपरिग्रहः । फलानि जम्बूबिल्वादीनि, एषु च मद्यादिषु राजव्यापारादौ वर्तमानेन यत्किंचित्क्रापणादि कृतं तस्मिन् , एतैरन्तर्भोगः सूचितः। बहिस्त्वयं 'गंधमल्ले यत्ति' गन्धा वासाः, माल्यानि पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः, (इत्येवं)रूपे उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामि। अत्र भोगतोऽ-द तिचारप्रतिक्रमणायाह| 'सच्चित्ते पडिबद्धे, अपोलदुप्पोलिअंच आहारे । तुच्छोसहिभक्खणया पडिक्कमे देसि सव्वं ॥२१॥ 'सचित्तेत्ति' कृतसचित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सञ्चित्तमतिरिक्तमनाभोगादिनाभ्यवहरतः, सचित्ता-12 Bहारोऽतिचारः १। एवं वृक्षस्थं गुन्दादि राजादनादि वा सास्थिकं फलं मुखे प्रक्षिपतः सचित्तप्रतिबद्धाहारः २॥ एवमपक्वस्याग्निनाऽसंस्कृतस्यापरिणतकणिक्कादेर्भक्षणमपक्वौषधिभक्षणात् ३ । एवं दुष्पक्कस्य पृथुकादेर्दुष्पक्कौषधिभक्षणतः४। तुच्छा तृप्त्यहेतुत्वादसारा ओषधीः कोमलमुद्गशिङ्गादिका भक्षयतस्तुच्छौपधेर्भक्षणात् ५। एतद्विषये पडिक्कमे इत्यादि प्राग्वत् ॥२२॥ अत्र च व्रते भोगोपभोगोत्पादकानि बहुसावधानि कर्मतोऽङ्गारकादीनि पञ्च RESEARCRE JainEducation For Private Personel Use Only hinelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy