SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रश्नोत्तरं तेन वणिक्प्रसूः । मिषं कृत्वा ययौ पार्थे, सिद्धसेनगुरोस्ततः ॥ १० ॥ नत्वोचे यादृशेनासौ, कुमारः प्रतिबुध्यते । ज्ञात्वा ज्ञानेन तादृग्मे, किञ्चित्प्रश्नोत्तरं वद् ॥ ११ ॥ शिवभूतिस्ततः सम्यक्, तदाधीत्य गुरुदितम् । विद्वगोड्यां द्वितीयेऽन्हि, राजपुत्रान्तिकं ययौ ॥ १२ ॥ तेनापि कृतसन्मानो, निषण्णः सोऽथ धीमता । केनाप्युक्तमिदं प्रश्नोतरं व्यस्त समस्तकम् ||१३|| प्रियं केन कृतं सर्व, का सहेन्नाम किं समम् । ब्रह्मर्हितोऽथवाख्या, का! को वाम्भोनिधिरन्तिमः ! ॥ १४ ॥ द्रुतमुक्तं कुमारेण, स्वयंभूरमणस्ततः । मुक्त्वान्यान् पठतोऽनेन, राजपुत्रः सुधी| रपि ॥ १५ ॥ ( प्रच्छितः) पाण्डवाः कति ? कः शब्दो, नतौ शब्द्यः ? कथं विधिः ? । किं नामा भूसुतः ? को वा, मन्त्रेषु परमो मतः ? ॥ १६ ॥ ततथिरं विमृश्योचे, राजपुत्रः सुधीरपि । सखे पञ्चनमस्कार, इति संभावयाम्यहम् ॥ १७॥ शिवभूतिस्ततः प्रोचे, किं विलम्वोऽत्र मित्र ! ते ? । स प्रोचेऽद्यापि भावार्थ, मन्त्रस्यास्य न वेश्यहम् ॥ १८ ॥ तन्मित्र ! मन्त्रमेनं मे, पुरोऽधीष्व सकृत्ततः । तेनापि पठिते तस्मिन्, जातिस्मृतिमवाप सः ॥ १९ ॥ केशान् क्लेशानिवोत्खाय, मुष्टिभिः पञ्चभिस्ततः । राजपुत्रः प्रवत्राज, देवतादत्तलिङ्गभृत् ॥ २० ॥ निर्गत्य तत्क्षणाद्देहागुहाया इव केसरी । स महापुण्डरीकाख्य- वने गत्वाऽथ तस्थिवान् ॥ २१ ॥ राजा ज्ञात्वेति वृत्तान्तं तत्रैत्य स परिच्छदः । शोकार्त्तो वीक्षितुं | नेशस्ततो नत्वा न्यवर्त्तत ॥ २२ ॥ प्रोल्लसद्भक्तिसंभारोद्भूतरोमाञ्चकञ्चुकः । शिवभूतिस्तु तं नत्वा पप्रच्छ व्रतका - रणम् ॥ २३ ॥ अधोवाच कुमारर्षिः, पुरा कोलपुरेऽभवत् । श्रेष्ठिनः सिन्धुदत्तस्य, नन्दनो नाम नन्दनः ॥ २४ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy