SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥६८॥ Jain Educatio ॥ ४१ ॥ प्राणवृत्तिं फलैः कृत्वा, तत्र भ्राम्यन्नितस्ततः । खनन्तं मेषशृङ्गेण ददर्शकं नरं भुवम् ॥ ४२ ॥ गत्वा तदन्तिके भक्ति, कुर्वता तेन रञ्जितः । धातुवादी ततोऽवादीदपास्ये तव निःखताम् ॥ ४३ ॥ ध्मात्वा तौ धातुपापाणानू, रात्रावनिमिपेक्षणौ । क्षिप्तौषधी रसं खर्ण, पातयामासतुस्ततः ॥ ४४ ॥ पुनः पातयितुं लग्नौ क्षेत्रपालेन तौ कुधा । उद्दाल्य प्राक्तनं खर्ण, दूरं क्षिप्तौ पृथक् पृथक् ॥ ४५ ॥ धरणोऽथ विषण्णात्मा, दध्यौ धिग् मामधन्य - कम् । सर्वत्र निष्फलारम्भः प्रत्युतानर्थभाजनम् ॥ ४६ ॥ तमेवमतिशोचन्तं तत्रैत्यैकोऽमरोऽब्रवीत् । शृणु भो ! धरण ! प्राच्यं, निःखता हेतुमात्मनः ॥४७॥ वभूव मिथिलापुर्वी, त्वं चाहं चातिकोविदौ । सहोदरौ वणिक्पुत्रावन्योऽन्यमनुरागिणौ ॥ ४८ ॥ कर्म यद्यद्यधावावां, तत्तन्निष्फलतां ययौ । निर्द्धनत्वात्ततो जातौ, तूलादपि लघू जने ॥४९॥ ततोऽपमानदारिद्र्य - दुःखसंतापतापितौ । निर्गत्य खगृहाद्भान्तौ वनादौ सैरभाविव ॥ ५० ॥ तत्र च प्रेक्ष्य संभूतमुनिं नत्वा च भक्तितः । तदुःखकारणं स्वस्य, पृच्छावः स्वच्छमानसौ ॥ ५१ ॥ मुनिर्जगाद लोभो हि, सर्वदुःखखनिः खलु । त्यक्त्वा तदेनमाधत्तं, संतोपं सौख्यकारणम् ॥५२॥ श्रुत्वेति प्रत्यपद्याव, पञ्चमाणुत्रतं ततः । शुद्धं धर्म विधायाहं, सौधर्मे त्रिदशोऽभवम् ॥ ५३ ॥ पञ्चमाणुत्रतं त्वं तु, विराध्य बहुशो मृतः । भ्रान्त्वा तिर्यक्ष्यित्कालं भवेऽस्मिन् धरणोऽभवः ॥ ५४ ॥ श्रुत्वेति धरणः स्मृत्वा खां जातिं जातभावनः । गाढं लोभाग्रहं त्यक्त्वा, विरतिं देशतोऽग्रहीत् ॥ ५५ ॥ अवधिज्ञानतो ज्ञात्वा, सर्वमेतत्तवाधुना । प्रतिबोधार्थमत्रागां, मा प्रमादीवृथा भवान् ॥ ५६ ॥ tional For Private & Personal Use Only वृति: ૫૬ના v.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy