________________
पशुरामोऽथ जग्मिवान् । वणिजो जयदेवस्य, विपणौ निषसाद सः ॥३१॥ जज्ञे परिचयस्तेन, नित्यं तत्र निपीदतः। तौ द्वावप्यन्यदा स्नातुं, पुष्करिण्यामुपेयतुः ॥३२॥ श्रेष्ठिनः क्रीडतस्तत्र, पतत्तीरेऽङ्गुलीयकम् । स्नात्वा च तदविज्ञाय, प्रतस्थे खगृहं प्रति ॥ ३३॥ पशुरामोऽथ तदृष्ट्वा, गृहीत्वा यावदन्वगात्। तावत् तत्पतितं ज्ञात्वा, श्रेष्ठी गाढं विपे-16 |दिवान् ॥३४॥ पश्चादापतितः पशु-रामो ज्ञात्वा तमातुरम् । मया लब्धमिदं श्रेष्ठिन् !, ब्रुवन्नित्येतदार्पयत् ॥३५॥ तुष्टः श्रेष्ठी जगादेवं, कुत्र त्वमिदमासदः। स स्माहासादितं ह्येतत् , मया वाप्यास्तटे ननु ॥ ३६ ॥ जयदेवोऽथ तं|8| ज्ञात्वा, परस्खविगतस्पृहम् । शशंसेति त्वयैवेयं, रत्नगर्भा ध्रुवं धरा ॥३७॥ युतस्य पशुरामेण, श्रेष्ठिनस्तस्य सोऽन्यदा । अदीदृशदलङ्कार, तं गुप्तं कालिकासुतः ॥ ३८॥ तमालोक्य जगादेवं, जयदेवो विशारदः। महामूल्यमदो लातु| मलमेतन्महीभृतः ॥३९॥ प्रच्छन्नं श्रेष्ठिने प्रोच्य, वृत्तान्तं तस्य मत्रिसूः । कुतस्त्वमागा इत्यूचे, संभ्रमात्कालिका
सुतम् ॥४०॥ अजानन्निव सोऽप्यूचे, किमेतत्प्रच्छनं तव । स्मित्वोचे पशुरामस्तं, व्यस्मापरिचिरेण किम् ? ॥४१॥ द्र हमत्रिणोऽर्जुनसंज्ञस्य, भोः काम्पिल्यपुरे किल । कालिकासुतनामा त्वं, दासोऽसि ननु मत्पितुः ॥४२॥ धार्यमा
लम्ब्य दासस्तं, प्रत्यूचे तरलेक्षणः । भ्रान्तोऽसि भद्र सादृश्यान्ननु विज्ञोऽपि साम्प्रतम् ॥ ४३ ॥ अथोचे जयदेवस्तं,
कुत्रत्योऽसि किमाह्वयः । अलङ्कारश्च कस्यायं, मूल्यं किं वास्य कल्पितम् ॥४४॥ सोऽप्यूचे सेवको गङ्गानामाहं रोहिदणेशितुः। तदीयोऽयमलङ्कारो, लक्षमूल्यो हि निश्चितम् ॥४५॥ श्रेष्ठयुवाच मृषाप्यज्ञ ! वक्तुं नो वेत्सि रे ननु । एकैक-|
OGSSSSSSSSSSSSSS
n
on
For Private
Personal Use Only