SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रोवाच नो किश्चिदस्ति सत्यव्रते फलम् ॥ ३९ ॥ सूरिरूचे मनःशुद्धिसम्भवं क्लेशनाशनम् । ब्रह्मत्वहेतुकं सत्यं, तथा च गदितं श्रुतौ ॥४०॥ यदा सर्वानृतं त्यक्तं, मृषाभाषाविवर्जितम्। अनवद्यं च भाषेत, ब्रह्म सम्पद्यते तदा ॥४१॥ सोऽथ प्रत्युत्तरं दातुमशक्तो मौनमाश्रयत् । सागरेण पुनस्तत्र, शिश्रिये सूनृतं व्रतम् ॥ ४२ ॥ जिनधर्मरतो जज्ञे, ततःप्रभृति सागरः। द्वितीयो गुरुकर्मत्वात्तन्निन्दातत्परः पुनः॥४३॥ अन्यदा तत्पुरेशेन, प्रारब्धे यज्ञकर्मणि। निष्णातत्वान्नियुक्तोऽसौ, यागहोमादिकर्मसु ॥४४॥ अन्येऽप्यध्यापका राज्ञा, मिलिताः शास्त्रपारगाः। सागरस्तत्र दृष्ट्वाऽजान् , वधाय प्रगुणीकृतान् ॥४५॥ विज्ञप्तस्तेन राजा किं, वध्य(हन्य)न्तेऽमी वराककाः?। अजशब्देन | गृह्य(ह्य)न्ते, त्रिवर्षा ब्रीहयो न किम्? ॥४६॥ वसुराजस्य वृत्तान्तः, किं न पर्वतकस्य च । श्रुतो देवेन ? यन्मिथ्याभाष-18 नणात्तौ क्षयं गतौ ॥ १७ ॥ राजाख्यन्न श्रुतं व्यक्तं, ततोऽसौ सागरोऽवदत् । अत्रार्थ मा स्म शविष्ठाः, शिष्टोऽत्रा*न्योऽपि पृच्छयताम् ॥४८॥ पृष्टास्तेऽध्यापकाः प्रोचुः, श्रुतमस्माभिरप्यदः । ततः सोऽग्निशिखोऽवादीत् , क्रोधाह कारपूरितः ॥४९॥ किमस्य कथ्यतां देव !, त्यक्तो येन कुलक्रमः । अयं शद्रान् प्रणन्ता च, श्रूयतां मे तु निश्चितम् ६॥५०॥ चेत्तौ क्षयं गतौ मिथ्याभाषणात्तर्हि मे ध्रुवम् । भ्रंशः स्याद्गाढदिव्येन, नृपोऽप्यामेत्युवाच तम् ॥५१॥ कदाग्रहगृहीतेन, (ग्रन्थानम् १७००) फालोऽथ जगृहेऽमुना। निर्दग्धस्तेन राज्ञाऽसौ, देशानिष्कासितस्ततः॥५२॥ सत्यवादीति पूर्लोकः, पूजितो भूभुजापि च। सागरः सुचिरं धर्म, चरित्वा सुगतिं गतः ॥ ५३॥ इत्यवधार्य मृपा-18 MOSAICHAPARRORRES ROSSASAASAAN Jain Education Wom For Private & Personal Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy