SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education ॥ १० ॥ श्रुत्वेति लोकतो वार्त्ता, सागरः प्रोचिवानिदम् । हहा पर्वतकः कस्माद्धेतोर्व्याख्यातवान् मृषा ॥ ११ ॥ उवाचाग्निशिखोऽथैवं, को दोषस्तेन यद्यसौ । मुख्योऽर्थः ख्यापितो लोके, प्रत्यूचे सागरोऽथ तम् ॥ १२ ॥ हंहो | मुख्योऽयमर्थश्चेत्तत्ताभ्यां तादृशं फलम् । किमवासमथो गाढद्वेषादग्निशिखोऽवदत् ॥ १३ ॥ द्विधापि दृश्यते दण्डो, | न्यायादन्यायतोऽपि च । किं न श्रुतः पुराणेषु, माण्डव्यर्षिस्तथाहि सः ॥ १४ ॥ एकाग्रमानसोऽरण्ये, तपः कुर्वन् सुदुष्करम् | दृष्टोऽन्यदा सलोप्त्रेण, चौरेण द्रुतमियूता (मीयुषा ) ॥ १५ ॥ पृष्ठतस्त्वियूतां राजपुरुषाणां भयादसौ । तस्करस्तदृषेः पार्थे लोप्त्रं मुक्त्वा ययौ क्वचित् ॥ १६ ॥ पश्चादापतितैस्तैस्तद् दृष्ट्वेदं हृदि चिन्तितम् । हृतमेतदनेनैव, वरदम्भोsस्य कीदृशः ॥ १७ ॥ बद्धस्ततः सलोप्त्रोऽसौ निन्ये तैर्नृपतेः पुरः । तेनापि रभसादिष्टं, बध्योऽयं दुष्टचेष्टितः ॥ १८ ॥ तैरारोप्य खरे सोऽथ, तथैवासननिश्चलः । नीत्वा वध्यभुवं तत्र, शूलिकां चिक्षिपे क्षणात् ॥ १९ ॥ उरो वा सा यावन्निर्ययौ सोऽथ पीडितः । ध्यानाद्भष्टस्तथा खं खं दृष्ट्वा दध्याविति कुधा ॥ २० ॥ हन्म्येतान् किंकरान् यद्वा, किमेतैः किंकरैर्हतैः । हन्म्येनं नृपतिं यो हि, शिष्टाशिष्टाविचारकृत् ॥ २१॥ एषोऽपि न वधार्हो मे, धर्मराजनियोगकृत् । तमेव भस्मसादद्य, करोम्युग्रतपोऽग्निना ॥ २२ ॥ स ऋषिर्यावदेतस्योदस्थाध्घाताय (स्मादन्येश्वा, याति) तत्क्षणात् । चित्रगुप्तयुतो धर्मराजोऽथैत्याब्रवीदिदम् ॥ २३ ॥ मुनेः ! किं किमहं कस्योद्दालयामि ददामि वा ? | | किन्तु स्वकृतकर्मानुरूपो व्यापार एव मे ॥ २४ ॥ दध्यौ सोऽथ मुनिः पूर्व, किं मयाकारि दुष्कृतम् ? । वत्सपालभवे For Private & Personal Use Only ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy