SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥५९॥ Jain Education तत्र सहसित्ति सूचनात् सूत्रमिति सहसानालोच्याभ्याख्यानमसद्दोपाधिरोपणं, चौरोऽयमित्याद्यभिधानं सह- वृत्तिः साभ्याख्यानं १ रहस्येकान्ते मन्त्रयमाणान्वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्यादि (दे ) श्राभिधानं रहोऽभ्याख्यानं २ खदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं खदारमन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् ३ अज्ञातमन्त्रौषध्याद्युपदेशनं मृषोपदेशस्तस्मिन् ४ अन्यमुद्राक्षरादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च प्राग्वत् । अत्र व्रते भ्रातृद्वयकथा अत्रैव भरतक्षेत्रेऽभूत्काञ्चनपुरेश्वरः । राजा समरसिंहाख्यः, सिंहतुल्यपराक्रमः ॥ १॥ तत्र चाध्यापकौ वेदपारगौ च सहोदरौ । सागराग्निशिखाभिख्यौ, छात्रव्रजसमावृतौ ॥२॥ तौ च शुक्तिमतीपुर्या, पुरा क्षीरकदम्बकः । अध्याप| यदुपाध्यायो, धीधनानां धुरन्धरः ॥ ३ ॥ अन्यदा श्रुतमेताभ्यां यथा क्षीरकदम्बकः । प्राप मृत्युं ततस्तस्य, पदे | पर्वतकोऽभवत् ॥४॥ वखाख्यो नृपतेः पुत्रः, तत्पुर्या च नृपोऽजनि । सहाध्यायी तयोश्चागान्नारदोऽतिथिरन्यदा ॥५॥ अजैर्यष्टव्यमित्येतत् वाक्यं पर्वतकस्तदा । व्याचक्रे पशुभिर्यागो, विधेय इति मन्दधीः ॥ ६ ॥ अथोचे नारदो मैवं, व्याख्यासीस्त्वं सखे मृषा । त्रिवर्षा अजशब्देन, व्रीहयोऽत्र शिरः पणः ॥ ७ ॥ एवं विवदमानौ तौ वसुक्षोणीशपर्पदि । गत्वा शशंसतुस्तस्मै, खखव्याख्यानमुच्चकैः ॥ ८ ॥ अथाध्यापक पुत्रस्य, दाक्षिण्याद्धरणीधरः । अजैर्यष्टव्यमित्यत्र, |च्छागैरित्यचिवान् मृषा ॥ ९ ॥ ततश्चपेटया रोषाद, वसुर्वसुमतीपतिः । हतो देवतया क्लेशभागी पर्वतकोऽप्यभूत् For Private & Personal Use Only ॥५९॥ ainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy