SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ REACTROCALLSHARMACROGRACEBOEM |माचर्य सुचिरं सुधीः। इहैव प्राप सत्कीर्ति, प्रेत्य स्वर्गादिभागभूत् ॥३६॥ एवं जना बहुलदूषणसद्गुणाली, प्राणाति-18|| पातकरणाकरणे निशम्य । स्वर्गापवर्गफलदानविधौ पटिष्ठां, तत्सर्वदेहिषु दयां सततं कुरुध्वम् ॥३७॥ (वसन्ततिलका) प्राणातिपातव्रते यज्ञदेवकथा ॥ १० ॥ द्वितीयत्रतमाह बीए अणुवयंमी, परिथूलगअलिअवयणविरईओ।आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ ११ ॥ द्वितीयेऽणुव्रते, परीत्यतिशयन स्थूलकमकीर्त्यादिहेतु अलीकवचनं कन्यालीकादि पञ्चधा। तत्र द्वेषादिभिरविषकन्यां विषकन्यादि वदतः कन्यालीकम् १ एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकम् २ परसक्तां भूमिमात्मसक्तां वदतो भूम्यलीकम् ३ उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदादीनां, न्यासस्य धनधान्यादिस्थापनिकाया हरणमपलापो न्यासापहारः ४ अत्र पूर्वत्र चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं । लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात्कूटसाक्षित्वम् ५ अनयोश्च द्विपदाधलीकान्तर्भावेऽपि लोकेऽतिगर्हितत्वात् पृथगुपादानं । एतस्य पञ्चविधालीकस्य यद्वचनं भाषणं तस्य विरतेः, 'आयरिय' इत्यादि प्रागवत् ॥११॥ अस्यातिचारप्रतिक्रमणायाह सहसा रहस्स दारे, मोसुवएसे अ कूडलेहे अ। वीयं वयस्सइआरे, पडिक्कमे देसिअंसव्वं ॥ १२ ॥ Jain Education ainelibrary.org a For Private & Personal Use Only l
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy