SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥५८॥ Jain Education | यज्ञदेवेन, व्रतमेतत्समाददे । न पुनः शिवदेवेनानुशयान्वितचेतसा ॥ २१ ॥ गुरुपादांस्ततो नत्वा, ते सर्वे स्वाश्रयं ययुः । श्रुत्वाऽथ शिवदेवस्तां, तेनोढामूचिवानिदम् ॥२२॥ सन्धिपालतनूजेऽस्मिन् द्विननाम्यहते ध्रुवम् । शय्यायां नो शये नो वा, मानयामि सजादिकम् ॥ २३ ॥ मन्त्री श्रुत्वेति वैराग्यान्महात्मा व्रतमाददे । यज्ञदेवस्तु तं सर्व, | गत्वा राज्ञे न्यवेदयत् ॥ २४ ॥ तेनापि परितुष्टेन, स्थापितोऽसौ पितुः पदे । आहूय शिवदेवस्तु वारितः कर्मणस्ततः | ॥ २५ ॥ ओमित्युक्त्वोपरोधेन, सोऽपि च्छिद्राणि मार्गयन् । भोगीव गमयामास, क्रूरात्मा कतिचिद्दिनान् ॥ २६ ॥ अथानङ्गत्रयोदश्यां वसन्तसमयेऽन्यदा । पुरीजनो ययौ सर्वः सर्वर्ध्या क्रीडितुं वने ॥२७॥ तदा चागत्य विज्ञप्तं, शिवदेवस्य हेरिकैः । सायमल्पपरीवारः, सोऽद्योद्यानं गमिष्यति ॥ २८ ॥ ततोऽसौ तत्र सन्नद्य, गत्वा प्रच्छन्नमा| स्थितः । नन्दिघोषोऽथ तत्रागाद्वने मदनमर्चितुम् ॥ २९ ॥ मन्त्रिस्तेन वध्ध्वा तं हत्वा चावर्मिताङ्गकम् । प्रणश्यन् सन्धिपालेन, प्रेक्ष्याग्राहि प्रहृत्य सः ॥ ३० ॥ राज्ञे निवेदितं तच्च तेनान्यायीत्युपैक्षि सः । ततोऽसौ सन्धिपालेन, हतोऽगाद्दुर्गदुर्गतिम् ॥ ३१ ॥ यज्ञदेवोऽथ पूर्लोकः, प्रेर्यमाणोऽप्यनेकशः । वैरनिर्यातनायोश्चैश्चिन्तयामास चेतसि ॥ ३२ ॥ सर्वेषां प्राणिनां सर्वे, प्राणिनोऽनन्तशोऽभवन् । मित्राण्यमित्रास्तत्कोऽत्र, खजनो दुर्जनोऽपि वा ॥ ३३ ॥ किं च यो येन हन्येत, स तेनामित्रतां व्रजेत् । जन्मान्तरेष्वदभ्रेषु तत्प्राणी हन्यते कथम् ॥ ३४ ॥ | यज्ञदेवो विदन्नेवं वचोभिरविवेकिनाम् । विरतेर्जीवघातस्य, नाचालीदचलाचलः ॥ ३५ ॥ स्वधर्मे निरतीचार - For Private & Personal Use Only वृत्तिः ॥५८॥ www.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy