SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥५॥ तद्रूपमोहितः शून्यचित्तः सोऽथ गृहं गतः । पृष्टः पित्रा सनिर्वन्धमाख्याच्छून्यत्वकारणम् ॥६॥ ततस्तां याचितुं प्रेषीन्मन्त्री तत्र स्वपूरुषान् । तैर्याचितोऽथ सेनानीः, प्रत्यूचे रचिताअलिः ॥७॥ भव्यमेतत्परं किन्तु, मया दत्तेयमग्रतः। नन्दिघोषाभिधानाय, सन्धिपालस्य सूनवे ॥८॥ अद्यापि यदि नेनां स, कथंचित्परिणेष्यति । शिवदेवाय तद्दास्येऽवश्यं मदनमञ्जरीम् ॥९॥ (ग्रन्थाग्रम् १६००) ततः पुम्भिनिवृत्त्योक्ते, वृत्तान्तेऽस्मिन् स मन्त्रिसूः। वैमनस्यमगाद्गाढं, कामक्रोधविवाधितः॥१०॥ श्रुत्वैतन्नन्दिघोपोऽपि, विशेषेण कृतादरः। तामुट्ठोढुमढौ|किष्ट, ज्ञात्वेत्यूचेऽथ मन्त्रिसूः ॥ ११ ॥ ययेनामेष दुष्टात्मा, वयस्याः परिणेष्यति । हहो नेष्यामि तन्नूनमे न्तकवेश्मनि ॥१२॥ मन्त्री श्रुत्वेति तन्मन्त्रं, यज्ञदेवमदोऽवदत् । कथं निवर्तनीयोऽयं, मयास्मात्पापकर्मणः ॥१३॥ हुं ज्ञातमेनमाचार्या, बोधयिष्यन्ति तं ततः । वज्रसेनगुरोः पार्थे, निन्यतुस्तौ कथंचन ॥ १४ ॥ मन्त्री नत्वा स पुत्रोऽपि, गुरूनेवं व्यजिज्ञपत् ।गृहिधर्मस्वरूपं मे, समाख्याहि फलान्वितम् ॥१५॥ गुरुरूचे दयामूलो, धर्मः सर्वत्र दागीयते। सुमहार्यफलज्ञातादभयेन विचारितात् ॥ १६ ॥ तत्र द्वैधं त्रिधोपेत्य, निरागस्त्रसजन्तुषु । निषेधो यो वध स्यैतद , व्रतं धर्मोऽयमेव हि ॥ १७॥ वृत्तिकल्पानि शेषाणि, व्रतान्यस्यैव गुप्तये । नृस्वःसौख्यं फलं त्वस्य, मोक्षो ऽपि क्रमयोगतः ॥ १८ ॥ व्रतेऽस्मिन्नवगन्तव्या, वर्जनीयास्तु यत्नतः । वधवन्धादयः पञ्चातिचाराः क्रोधसम्भवाः ह॥ १९ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये। ते दुर्गदुर्गतौ दुःखं, सासह्यन्ते ध्रुवं चिरम् ॥ २० ॥ श्रुत्वेति | Jain Educat For Private & Personal Use Only tw.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy