________________
श्राद्धप्र.
॥५६॥
Jain Education
इति स्वयमूह्याः । एतांश्च सम्यक्त्वस्यातिचारानाश्रित्य यद्वद्धमित्यादि प्राग्वत् ॥ ६ ॥ इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनारम्भनिदर्शनार्थमाह
छक्का समारम्भे, पयणे अपयावणे अ जे दोसा । अत्तट्टा य परट्ठा, उभयट्ठा चेव तं निंदे ॥ ७ ॥
पकायानां भूदकाग्निवायुवनस्पति सरूपाणां समारम्भे परितापने, तुलादण्डन्यायात्संरम्भारम्भयोः सङ्कल्पापद्रावणलक्षणयोः । एतेषु सत्सु ये दोषाः पापानि (न) त्वतीचारा अनङ्गीकृते मालिन्याभावात् । क्व सति ? पचने च पाचने च चशब्दादनुमतौ च । किमर्थमित्याह - आत्मार्थं खभोगार्थ, परार्थ प्राघूर्णकाद्यर्थे, उभयार्थं च खपरार्थ, चशब्दोऽनर्थकद्वेषादिदोपसूचकः । एवमादिप्रकारेयत्तादर्शकः । यद्वा आत्मार्थ मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति, एवं परार्थोभयार्थावपि, अथवा षट्कायसमारम्भादिष्वयत्नेनापरिशुद्धजलादिना ये दोषाः कृतास्तान् निन्दामीति ॥ ७ ॥ साम्प्रतं सामान्येन चारित्राचारप्रतिक्रमणायाह
पंचमणुवयाणं, गुणव्वयाणं च तिण्हमइयारे । सिक्खाणं च चउण्हं, पडिक्कमे देसिअं सव्वं ॥ ८॥ सुगमा । नवरं अनु सम्यक्त्वप्रतिपत्तेः पश्चात् अणूनि महात्रतापेक्षया लघूनि वा व्रतानि अणुव्रतानि तानि च पञ्चेति मूलगुणास्तेषामेव विशेषगुणकारकाणि दिग्नतादीनि त्रीणि गुणत्रतान्येतानि यावत्कथितानि, शिक्षा
For Private & Personal Use Only
वृत्तिः
॥५६॥
jainelibrary.org