SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ COCIRCROSGIRMANGAROO न्तौ, भवन्तावमरिष्यताम् ॥ ३१॥ तदिदानीमिदं सम्यक , सेवेथां विश्वसेवितम् । इत्युदीर्य मुनिं नत्वा, सुपर्णः खाश्रयं ययौ॥३२॥ तौ तु विज्ञातसत्तत्त्वौ, विरक्तौ भवतो भृशम् । निष्क्रम्य तन्मुनेः पार्थे, तेपाते दुस्तपं तपः ॥ ३३॥ तयोर्मृत्वाद्यनाकेऽभूत् , ज्येष्ठो विद्युत्प्रभः सुरः। कनिष्ठस्त्वं तु तत्रैव, विद्युत्सुन्दर इत्यभूः ॥३४॥ च्युत्वा विजयवत्याख्यपुर्या ज्येष्ठो वणिकसुतः। मित्रं मदनदत्तोऽभून्नरवर्ममहीपतेः ॥ ३५ ॥ सोऽयमर्थार्जनायाटस्त्वया दृष्टोऽद्य तत्तव । स्नेहः पूर्वभवाभ्यासादस्मिन्नुज्जृम्भते भृशम् ॥ ३६॥ श्रुत्वेति विबुधः सोऽदात् , तं हारं हर्षितो मम । अपृच्छच्च गुरून् कि मे, भावा निद्रादयोऽप्यमी? ॥३७॥ ते प्रोचुस्तेऽन्तिको मृत्युः, सोऽप्यप्राक्षीत्पुनर्गुरून् । कुत्रोत्पत्तिः ? कथं वा मे, बोधिलाभो भविष्यति ?॥३८॥ तेऽभ्यधुर्नरवाख्य(स्य),गृहे पुत्रत्वमाप्स्यसे। हरिदत्ताभिधो हारममुं दृष्ट्वा च भोत्स्यसे ॥३९॥ इत्यस्तसंशयः सूरिं, नत्वाऽसौ वर्गमीयिवान्। मया पृष्टः पुनर्नत्वा, ते हारोत्पत्तिं गुरुर्जगौ ॥४०॥ पुरा यदा नवोत्पन्नश्चमरेन्द्रो हरिं प्रति । योद्धं गतस्ततो भीतोऽधोमौलिाक् पला यत ॥४१॥ नश्यतस्तस्य हारोऽयं, कण्ठतो लुठितो भुवि । इतोऽसङ्ख्यतमे द्वीपे, प्राप्तोऽनेन स नाकिना ॥४२॥ इति श्रुत्वा गुरून्नत्वा, पञ्चविंशतिवत्सरीम् । भ्रान्त्वा भुवं धनं भूरि, समुपााहमागमम् ॥४३॥ स्वामिस्तदेष वः पुत्रः, सोऽभून्नो वेति चिन्त्यताम् । राजाख्यत्तर्हि हे मित्र !, स हारस्तस्य दर्यताम् ॥४४॥ हरिदत्तमथाहूय, हारस्तस्यैव दर्शितः । ततस्तद्दर्शनात्तस्य, जातिस्मृतिरजायत ॥ ४५ ॥ राज्ञा पृष्टोऽथ सोऽवादीत्तथैव HARIREASAARESTIGOPICHACHAR JainEduc-१० For Private Personal Use Only Zainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy