SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education जम्बूद्वीपेऽस्ति भरते, देशेषु मगधेष्विह । पुरी विजयवत्याख्या, श्रीभिः सर्वपुरीविजित् ॥ १ ॥ नरवर्म्मनृपस्तत्र, नरेन्द्रालिनतक्रमः । अभूदेतस्य पत्नी च, सुरूपा रतिसुन्दरी || २ || पुत्रश्च हरिदत्ताख्यो, बलेन हरिसन्निभः । मतिसागरमुख्यास्तु, मन्त्रिणो मन्त्रवित्तमाः ॥ ३ ॥ राज्ञस्तस्येति साम्राज्यं, प्राज्यं पालयतोऽन्यदा । सभासीनस्य संलाप, | इत्यभूद्धर्मगोचरः ॥ ४ ॥ तत्रैकेनोदितं धर्मो, दाक्षिण्यौदार्य धैर्यतः । परोपकरणा लोकविरुद्धत्यागतस्तथा ॥ ५॥ अन्येनोक्तं श्रुतिप्रोक्तः, सोऽग्निहोत्रादिकः खलु । अपरेण पुनः प्रोक्तं, कुलक्रमागतो हि सः ॥ ६ ॥ इतरेण पुनः प्रोक्तं, धर्माधर्मौ कथञ्चन । प्रत्यक्षानुपलभ्यत्वान्न स्तो व्योमारविन्दवत् ॥ ७ ॥ धर्मे विवदमानांस्तान् विलोक्यैवमिलापतिः । खचित्ते चिन्तयत्येवं, चेतनावच्छिरोमणिः ॥ ८ ॥ न दाक्षिण्यादिना धर्मः, किं तु तत्पुरुषत्रतम् । श्रुतिप्रोक्तोऽथ तर्ज्ञेष, हिंसाद्यैः कलुषीकृतः ॥ ९ ॥ क्रमागतोऽपि नैष स्यात्, चेत्स्यात्तत्कस्य कस्य नो । नास्तिको तं तु नैव स्याद्रागवै (जगद्वै) चित्र्यदर्शनात् ॥ १०॥ परं को नाम धर्मः स्यात्, सर्वोपाधिविशुद्धिकः । इतचैत्य प्रतीहारो, | नत्वा भूपं व्यजिज्ञपत् ॥ ११॥ देवद्वारेऽस्ति वो बालवयस्यः चिरमागतः । क्षिप्रं मदनदत्तोऽसौ प्रवेश्योऽथ नृपोऽवदत् ॥ १२ ॥ सोऽथ प्रवेशितस्तेन, नमन्नालिङ्गय भूभुजा । पृष्टः कालमियन्तं त्वं कुत्रास्थाः ? किमुपार्जय ? ॥ १३ ॥ | सोऽपि नत्वा नृपं प्रोचेऽभ्रामं देशेषु भूरिषु । भूयस्यद्राक्षमाश्चर्याण्यर्जयं च धनं बहु ॥ १४ ॥ अयं चैकावलीहारो, नक्षत्रश्रेणिसोदरः । मया प्राप्तो महाराज !, विश्वत्रयमनोहरः ॥ १५ ॥ राजाख्यत्तावदाख्याहि, लाभं मङ्क्षु सखेऽस्य tional For Private & Personal Use Only xxx w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy