SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain Education तु, परिगृह्णामि तत्कथम् ॥ २० ॥ अनर्थदण्डभीरुश्च, कथयामि कथं हि तत् । ततः पृथ्वीपतिः प्रोचे, तद्गुणग्रामरञ्जितः ॥ २१ ॥ श्रेष्ठिन्नहो विवेकोऽयमहो निर्लोभता तव । अहो सावद्यभीरुत्वमहो पैशून्यवर्जनम् ॥ २२ ॥ इति प्रशस्य सत्कृत्य, वस्त्रालङ्करणादिभिः । स्वस्थानं व्यसृजद्राजा धर्मनन्दं महामनाः ॥ २३ ॥ लोभनन्दमिति प्रोचे, किं रे त्वं पश्यतोहरः । यदेवं मुषिता मुग्धा, वराकाः खनकास्त्वया ॥ २४ ॥ इत्युक्ता तस्य कृत्वा च, सर्वखहरणादिकाम् । विडम्बनां महीनाथः, कथञ्चित्तं व्यमुञ्चत ॥ २५ ॥ धर्मनन्दो महारम्भपरिग्रहविवर्जकः | प्रेत्यात्रापि भवे जज्ञे, भाजनं कीर्त्तिधर्मयोः ॥ २६ ॥ लोभनन्दो महारम्भपरिग्रहपरः पुनः । इहामुत्रापि दुःखौघ - भाजनं समजायत ।। २७ ॥ उच्चैर्महारम्भपरिग्रहस्य, विपाकमेवं विरसं निशम्य । संसारभूमीरुहबीजभूते, तदत्र भव्या ! दधतां निवृत्तिम् ॥ २८ ॥ ( उपेन्द्रवज्रावृत्तम् ) अधुना ज्ञानातिचारनिन्दनायाह जं वद्धमिंदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेणव, तं निंदे तं च गरिहामि ॥४॥ 'जं बद्धमिंदिएहिं ' यद्वद्धं यत्कृतमशुभं कर्म प्रस्तावाद्विरतिप्रतिबन्धका प्रशस्तेन्द्रियकपायवशगानां ज्ञानाति - चारभूतं । यदुक्तम्-तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् | १ ||' 'इन्द्रियैः' स्पर्शनेन्द्रियादिभिः, स्पर्शादिविषयसम्बन्धसम्भूतसाधुसोदासराजघ्राणप्रियकुमार For Private & Personal Use Only w.jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy